________________
दशमः सर्गः
३३५ श्वेत रोम का आवर्त बना हुआ है । वह चिह्न कौस्तुभमणि को कान्ति से चमक रहा है ।।१०॥
बाहुभिविटपाकारैदिव्याभरणभूषितः ।
अविर्भूतमपां मध्ये परिजातमिवापरम् ।।११।। संजी०-बाहुभिरिति । विटपाकारैः शाखाकारैदिव्याभरणभूषितर्बाहुभिरुपलक्षितम् । अत एव अपां सैन्धवानां मध्य आविर्भूतमपरं द्वितीयं पारिजातमिव स्थितम् ॥११॥
अन्वयः-विटपाकारैः दिव्याभरणभूषितैः बाहुभिः 'उपलक्षितम् अत एवं' अपां मध्ये आविर्भूतम्, अपरं पारिजातम् इव स्थितम् ।
व्याख्या-विटपस्य-शाखाया इव आकार:=प्राकृतिः येषां ते तैः विटपाकारैः =शाखावद्दीर्घपीवरैरित्यर्थः, दिवि भवानि दिव्यानि, दिव्यानि-मनोहराणि= आभूषणानि इति दिव्याभरणानि, दिव्याभरणैः भूषिताः शोभितास्तै: दिव्या. भरणभूषितः बाहुभिः-भुजैः उपलक्षितम्, अत एव अपां-जलानां मध्ये अन्तरे आविर्भूतं-प्रकटितम् अपरं-द्वितीयं पारिणः-समुद्रात् जातः उत्पन्नः पारिजातः =देववृक्षस्तं परिजातम् इव यथा स्थितं विष्णुं ददृशुरिति ।
समास:--विटपस्य इव आकारः येषां ते विटपाकारास्तैः विटपाकारैः । दिव्यानि च तानि भूषितास्तः दिव्याभरणभूषितः । पारिणो जातः पारिजातः तम् । पाभरणानि च दिव्याभरणानि तैः ।
हिन्दी-वृक्ष की शाखा के समान लम्बी मोटी, और सुन्दर आभूषणों से सशोभित भुजाओं वाले भगवान् को देखा। वे ऐसे लग रहे थे मानों समुद्र के बीच में प्रकट हुआ दूसरा पारिजात कल्पवृक्ष हो ॥११॥
दैत्यत्रीगण्डले खानां मदरागविलोपिभिः ।
हेतिभिश्चेतनावद्भिरुदीरितजयस्वनम् ॥१२॥ संजी०-दैत्येति । दैत्यस्त्रीगण्डलेखानामसुराङ्गनागण्डस्थलीनां यो मदरागस्तं विलुम्पन्ति हरन्तीति मदरागविलोपिनः । तैश्चेतनावद्भिः सजीवहतिभिः सुदर्शनादिभिः शस्त्रैः। 'रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः ।' इत्यमरः ।