Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
दशमः सर्गः
हिन्दी-भगवान् शंकर को प्रसन्न करने के लिये रावण ने, अपनी तलवार से नौ शिर काट कर चढ़ा दिये थे, एक रह गया था, इसमें उत्प्रक्षा है रावण की तलवार को धार से काटने से छुटा हुअा रावण का दसवां शिर, मानों उस राक्षस ने मेरे सुदर्शन चक्र का पर्याप्त भाग छोड़ रखा है । अतः मैं अवश्य उसे काटू गा ॥४१॥ तर्हि कि प्रागुपेक्षितमत आह
स्रष्टुर्वरातिसर्गात्तु मया तस्य दुरात्मनः ।
अत्यारूढं रिपोः सोढं चन्दनेनेव भोगिनः ॥१२॥ संजी०–स्रष्टुरिति । किंतु स्रष्टुब्रह्म गो वरातिसर्गाद्वरदानाद्धेतोः। मया तस्य दुरात्मनो रिपो रावणस्यात्यारूहमत्यारोहणम् । अतिवृद्धिरित्यर्थः । नपुंसके भावे क्तः, भोगिनः सर्पस्यात्यारूढ़ चन्दनेनेव सोहम् । चन्दनद्र मस्यापि तथा सहन स्रष्ट्रर्नियतेरिति द्रष्टव्यम् ॥४२॥
अन्वयः-मया तु स्रष्टुः वरातिसर्गात् तस्य दुरात्मनः रिपोः अत्यारूढं भोगिनः 'अत्यारूढं' चन्दनेन इव सोढम् ।
व्याख्या-तु-किन्तु मया-विष्णुना सृजतीति स्रष्टा, तस्य 'स्रष्टुः= ब्रह्मणः वरस्य -अभिलषितस्य अतिसर्गः-प्रदानमिति वरातिसगस्तस्मात् वरातिसर्गात् कारणात् तस्य प्रसिद्धस्य दुष्टः प्रात्मा यस्य स दुरात्मा, तस्य दुरात्मनः नीचस्य रिपोः-शत्रोः रावणस्य अतिशयेन प्रारूढमिति, प्रत्यारूढम् अतीवारोहणम्-अतिप्रवृद्धिरित्यर्थः भोगः अस्यास्तीति भोगी तस्य भोगिनः= सर्पस्य प्रत्यारूढम् चन्दयति आहादयतीति चन्दनः मलयजस्तेन चन्दनेन इव-यथा सोढं-मर्षितम् । चन्दनवृक्षस्यापि सर्पस्य तथा रोहणस्य सहनं ब्रह्मणो नियोगादेवेति ।
समासः-वरस्य अतिसर्गः वरातिसर्गस्तस्मात् वरातिसर्गात् । 'दुष्टः प्रात्मा यस्य स तस्य दुरात्मनः । अतिशयेन प्रारूडमिति प्रत्यारूढम् ।।
हिन्दी-किन्तु मैंने ब्रह्माजी के ( रावण को ) वरदान देने के कारण उस दुष्टात्मा रावण के बढने ( अत्याचार ) को वैसे ही सहन किया है, जैसे सांप के लिपटने को चन्दन का वृक्ष सहन करता है। क्योंकि चन्दन भी ब्रह्मा की माज्ञा से सहन करता है ॥४२॥