Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
३७२
रघुवंशमहाकाव्ये ___ संजी०-अचिंतेति । तस्य राज्ञः। कौ पृथिव्यां सलति गच्छतीति कोसलः । 'सल गतौ' पचाद्यच् । कुशब्दस्य पृषोदरादित्वाद्गुणः । कोसलस्य राज्ञोऽपत्यं स्त्री कौसल्या । 'वृद्धत्कोसलाजादाळ्यङ' (पा. ४।१।१७१ ) इति व्यङ, 'यडश्चाप' (पा. ४।१।७४ ) इति चाप । अत एव सूत्रे निर्देशात् 'कोसल'शब्दो दन्त्यसकारमध्यमः। अर्चिता ज्येष्ठा मान्या। केकयवंशजा कैकेयी प्रियेष्टा । अतो हेतोः, ईश्वरो भर्ता नृपः सुमित्रां ताभ्यां कौसल्याकैकेयीभ्यां संभावितां भागदानेन मानितामैच्छदिच्छति स्म । एवं च सामान्यं तिसृणां च 'भागप्रापणमिति राज्युचितज्ञता कौशलं च लभ्यते ॥५५॥
अन्वयः- तस्य कौसल्या अर्चिता, "आसीत्" केकयवंशजा प्रिया "आसीत्" अतः ईश्वरः सुमित्रां ताभ्यां सम्भाविताम् ऐच्छत् । . व्याख्या-तस्य राज्ञो दशरथस्य कौ-पृथिव्यां सलति-गच्छतीति कोसलः, कोसलस्य राज्ञः अपत्यं स्त्री कौसल्या। कौसल्या एतन्नाम्नी राज्ञः प्रथमां पत्नी, अय॑ते स्म इति अर्चिता-श्रेष्ठा-पूजिता ज्येष्ठेत्यर्थः आसीत् । केकयस्य राज्ञः वंशे-कुले जायते इति केकयवंशजा केकयराजपुत्री प्रिया इष्टा, आसीत् , अत:= हेतोः ईशितुं शीलमस्येति ईश्वरः-स्वामी राजा सुमित्रां-सुमित्रानाम्नी तृतीयपत्नी ताभ्यां = कौसल्याकैकेयीभ्यां संम्भावितां = संमानितां = स्वकीयभागात् भागदानेन मानितामित्यर्थः ऐच्छत्-अभिलषितवान् ।
समासः-केकयस्य वंशे जाता, केकयवंशजा । सम्यक् भाविता सम्भाविता, ताम् ।
हिन्दी-राजा दशरथ की कौसल्या मान्य बड़ी रानी थी, और केकय राजा के कुल में पैदा हुई कैकेयी प्यारी थी, इसलिये सामर्थ्यवान् राजा ने सुमित्रा को उन दोनों रानियों से ( अपने-अपने अंश में से उसे भाग देने से ) संमानित कराने की इच्छा की थी, अर्थात् दोनों बड़ी रानियां अपने भाग में से इसको चरु दें। यह सम्मान कराकर राजा ने औचित्य एवं चातुर्य का परिचय दिया है ।।५५।।
ते बहुज्ञस्य चित्तज्ञे पल्यौ पत्युमहीक्षितः।
चरोरर्धार्धभागाभ्यां तामयोजयतामुभे ॥५६॥ संजी०–ते इति । बहुज्ञस्य सर्वज्ञस्य । उचितज्ञस्येत्यर्थः । पत्युर्महीक्षितः