Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
३६६
रघुवंशमहाकाव्ये स्तान् अदूषितान् । स्वर्गस्य बन्द्यः स्वर्गबन्द्यस्तासां स्वर्गबन्दीनाम् । वेणीनां बन्धास्तान् वेणीबन्धान् :
हिन्दी-हे देवताओं ! "रावण द्वारा" स्वर्ग की बन्दी बनाई हुई स्त्रियों के जूड़ों की उन ग्रन्थिों को तुमलोग अपने हाथों से खोलोगे, जो कि नलकूबर के शाप के कारण, रावण के बलात्कार पूर्वक केशों के पकड़ने से दुषित नहीं हुई हैं।
विशेषः- रम्भा नाम की स्वर्गागना अभिसार के लिये कुबेरपुत्र नलकूबर के पास जा रही थी, बीच ही में रावण ने पकड़कर बलात् सम्भोग किया, इससे नलकूबर ने रावण को शाप दिया कि यदि किसी भी स्त्री से इस प्रकार बलात्कार करोगे तो तुम्हारे शिर के सैकड़ों टुकड़े हो जायेंगे। इसी डर से रावण किसी स्त्री से बलात्कार नहीं करता था। ऐसी कथा महाभारत में है ॥४७॥
रावणावग्रहलान्तमिति वागमृतेन सः ।
अभिवृष्य मरुत्सस्यं कृष्णमेघस्तिरोदधे ।।८।। संजी-रावणेति । स कृष्णो विष्णुः स एव मेघो नीलमेघश्च । विश्रवसोऽपत्यं पुमानिति विग्रहे रावणः 'विश्रवः'शब्दस्य वृत्तिविषये रवणादेशे रावण इति सिद्धम् । स एवावग्रहो वर्षप्रतिबन्धः, तेन क्लान्तं म्लानं मरुतो देवा एव सस्यं तत् । इत्येवंरूपेण वागमृतेन । 'अमृतं यज्ञशेष स्यात्पीयूषे सलिलेऽमृतम्' इति विश्वः । अभिवृष्याभिषिच्य तिरोदधेऽन्तर्दधे ॥४८॥
अन्वयः--सः कृष्णमेघः रावणावग्रहक्लान्तम् मरुत्सस्यम्, इति वागमृतेन अभिवृष्य तिरोदधे ।
व्याख्या-सः भगवान् कृष्णः-विष्णुरेव मेघः=नीलघनः इति कृष्णमेघः (विश्रवसः अपत्यं पुमान् इति विग्रहे 'शिवादिभ्योऽण' इति अणप्रत्यये विश्रवशब्दस्य रवणादेशे रावणः ) रावयति-विभीषयति सर्वानिति रावणः-राक्षसः एव अवग्रहः वर्षणप्रतिबन्वः, इति रावणावग्रहस्तेन क्लान्तं म्लानमिति रावणाव. ग्रहक्लान्तं मरुतः=देवाः एव सस्य-धान्यं तत् मरुत्सस्यम्, इति एवं रूपेण वाग= वाणी एव अमृतं-जलमिति वागमृतं तेन वागमृतेन अभिवृष्य-अभिषिच्य तिरोदधे अन्तर्दधे तिरोबभूव, अदृश्यो जात इत्यर्थः ।
समासः-कृष्ण एव मेवः इति कृष्णमेघः। रावण एव अवग्रहस्तेन क्लान्तं