Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
दशमः सर्गः
३६७
तत् रावणावग्रहक्लान्तम् । वाक् एव अमृतमिति वागमृतं तेन वागमृतेन । मरुतः एव सस्यं तत् मरुत्सस्यम् ।
हिन्दी-वह भगवान् विष्णुरूपी मेघ ( नीलमेघ ) रावणरूपी वर्षा के प्रतिबन्धक से दुःखी देवतारूपी धान को, इस प्रकार वाणीरूपी जल से सींचकर अदृश्य हो गये । अर्थात् जैसे काला बादल सूखी खेती को सींचकर निकल जाता है वैसे हो रावण से पीड़ित देवों को अपनी वाणी से तृप्त कर विष्णु भगवान् अदृश्य हो गये ॥४८॥
पुरुहूतप्रभृतयः सुरकार्योद्यतं सुराः ।
अंशैरनुययुर्विष्णुं पुष्पैर्वायुमिव द्रमाः ॥४९॥ संजी०-पुरुहूतेति । पुरुहूतप्रभृतय इन्द्राद्याः सुराः सुरकार्ये रावणवधरूप उद्यतं विष्णुमंशेर्मात्राभिः । द्रुमाः पुष्पैः स्वांशैर्वायुमिव । अनुययुः । सुग्रीवादिरूपेण वानरयोनिषु जाता इत्यभिप्रायः ॥४९॥
अन्वयः-पुरुहूतप्रभृतयः सुराः सुरकार्योद्यतं विष्णुम् अंशः, द्रुमाः पुष्पैः वायुम् इव अनुययुः ।
व्याख्या-पुरु-प्रचुरम् हूतम् आह्वानं यज्ञेषु अस्य स पुरुहूतः। पुरूणि हूतानि नामान्यस्य स पुरुहूतः । पुरुहूतः इन्द्रः प्रभृतिः आदिः येषां ते पुरुहूतप्रभृतयः सुराः=देवाः सुराणां-देवानां कार्य-रावणवधरूपमिति सुरकार्य, सुरकार्ये उद्यतः= संनद्धः तं सुरकार्योद्यतं वेवेष्टि -व्याप्नोति सर्वमिति विष्णुस्तं विष्णु-नारायणम्, अंशः-मात्राभिः द्रवति ऊर्ध्वमिति द्रुः शाखा अस्ति येषां ते द्रुमाः= वृक्षाः पुष्पैः= स्वांशकुसुमैः वायुम्=पवनम् इव-यथा अनुययुः = अनुजग्मुः। सुराः सुग्रीवादिरूपेण वानरयोनिषु जाताः। ___ समासः-पुरु हूतं यज्ञेषु यस्य स पुरुहूतः, पुरुहूतः प्रभृतियेषां ते पुरुहूतप्रभृतयः । सुराणां कार्यमिति सुरकार्य सुरकार्ये उद्यतस्तं सुरकार्योद्यतम् ।
हिन्दी-इन्द्र आदि देवों ने, रावण का संहाररूप कार्य करने के लिये तैयार हुए, विष्णु भगवान् का, अपने अपने अंशों से उसी प्रकार अनुगमन किया, जैसे कि वृक्ष अपने-अपने अंश पुष्पों से वायु का अनुगमन करते हैं । अर्थात् सभी देव सुग्रीव आदि रूप से वानरादि योनि में जन्म लिये ॥४९॥