________________
३५०
रघुवंशमहाकाव्य प्रत्यक्षोऽप्यपरिच्छेद्यो मह्यादिमहिमा तव ।
अपवागनुमानाभ्यां साध्यं त्वां प्रति का कथा ॥२८॥ संजी०-प्रत्यक्ष इति । प्रत्यक्षः प्रत्यक्षप्रमारागम्योऽपि तव मह्यादिः पृथिव्यादिमहिमैश्वर्यमपरिच्छेद्यः । इयत्तया नावधार्यः । प्राप्तवाग्वेदः । 'यतो वा इमानि भूतानि जायन्ते' ( तैत्तरीय. ३।१ ) इत्यादिश्रुतेः । अनुमानं 'क्षित्यादिकं सकर्तृक कार्यात्वात्, घटत्' इत्यादिकम् । ताभ्यां साध्यं गम्यं त्वां प्रति का कथा ? प्रत्यक्षमपि त्वत्कृतं जगदपरिच्छेद्यम्, तत्कारणमप्रत्यक्षस्त्वमपरिच्छेद्य इति किमु वक्तव्यमित्यर्थः ॥२८॥
अन्वयः-प्रत्यक्षः अपि तन मह्यादिः महिमा अपरिच्छेद्यः आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा ।
व्याख्या-अक्षम् इन्द्रियं प्रति गतः प्रत्यक्ष:-इन्द्रियजन्यज्ञानगम्यः अपि तव% भगवतः विष्णोः मह्यते-पूज्यते इति मही-पृथिवी आदिः यस्य स मह्यादिः महतो भावः महिमा-ऐश्वर्यम् परिच्छेत्तुम् इयत्तया ज्ञातुं योग्यः परिच्छेद्यः, न परिच्छेद्यः अपरिच्छेद्यः = इयत्तयानवधार्य , प्राप्ता-प्रत्ययिता-विश्वस्ता वाक-वारणी यस्य सः प्राप्तवाक्-वेदः अनुमानम्-अनुमितिकरणञ्चेति प्राप्तवागनुमाने, ताभ्याम् प्राप्तवागनुमानाभ्यां साध्यं गम्यम् 'यतो वा इमानि भूतानि जायन्ते,' इति वेदेन पृथिव्यादिकं सकर्तृकं कार्यत्वादित्यनुमानेन च ज्ञेयं त्वां विष्णु प्रति का कथा कि कथनीयम् । यदा भगवता त्वया निर्मितं प्रत्यक्षं जगदपि इयत्तया न ज्ञायते तदा तत्कारणस्याप्रत्यक्षस्यापरिच्छेद्यत्वे किमु वक्तव्यमित्यर्थः । __समासः-न परिच्छेद्योऽपरिच्छेद्यः । मही आदिः यस्य स मद्यादिः । आप्ता च वाक च सा प्राप्तवान् । प्राप्तवाक् च अनुमानं चेति प्राप्तवागनुमाने ताभ्याम् प्राप्तवागनुमानाभ्याम् ।
हिन्दी-“जब कि" इन्द्रियों से देखा, जाना गया, तुम्हारा ऐश्वर्य हो परिच्छेद ( इतने परिमाण वाला है ) के योग्य नहीं है तो फिर" वेद तथा अनुमान से जानने योग्य तुम्हारे प्रति क्या कहना है। अर्थात् तुम्हारे बनाये प्रत्यक्षसंसार का हो जब कोई पार न पा सका तो वेद तथा अनुमान के द्वारा परोक्ष तुमको कैसे कोई नान सकता है ॥२८॥