________________
दशमः सर्गः
३५३
करने का कारण एकमात्र लोगों पर अनुग्रह ( कृपा) करना ही है । अर्थात् परमकारुणिक होने से भगवान् की प्रवृत्ति दूसरों के लिये है न कि अपने लिये ॥३१॥
महिमानं यदुत्कीत्ये तव संहियते वचः ।
श्रमेण तदशक्त्या वा न गुणानामि यत्तया ॥३२॥ संजी० -महिमानमिति । तव महिमानमुत्कोयं वचः संह्रियत इति यत् तद्वचःसंहरणं श्रमेण वाग्व्यापारश्रान्त्या। अशक्त्या कात्स्न्येन वक्तुमशक्यत्वाद्वा । गुणानामियत्तयैतावन्मात्रतया न । तेषामानन्त्यादिति भावः ॥३२॥
अन्वयः-तव महिमानम् उत्कीयं वचः संहियते "इति" यत तत श्रमेण अशक्त्या वा गुणानाम् इयत्तया न ।
व्याख्या-तव भवतः विष्णोः महतो भावः महिमा, महिमानं सामर्थ्यम ऐश्वर्यमित्यर्थः, उत्कीत्य वचः-वचनं संह्रियतेः समाप्यते इति यत् , तत्= वचःसंहरणं श्रमेण-श्रान्त्या वाणीव्यापारसामर्थ्याभावेनेत्यर्थः वक्तुमशक्यत्वात गुणानां-दयादाक्षिण्यशौर्यादीनाम्, इदं परिमाणम् अस्येति इयान् , इयतः भावः इयत्ता, तया इयत्तया एतावन्मात्रत्वेन न नहि संह्रियते, तव गुणानामपरिमित. त्वादित्यर्थः।
समास:-न शक्तिः अशक्तिस्तया अशक्त्या । इयतो भावः इयत्ता, तया।
हिन्दी-“हे भगवन्" आपको महिमा ( ऐश्वर्यं ) को कीर्तन करके जो (हम ) वचन को रोक रहै हैं (चुप हो रहे हैं ) यह हमारा चुप होना "अपनी जिह्वा की" थकावट और असामय से है। न कि इसलिये कि आपके गुण इतने ही हैं। क्योंकि आपके गुण अनन्त हैं और हम उनका वर्णन करने में असमर्थ हैं ॥३२॥
इति प्रसादयामासुस्ते सुगस्तमधोक्षजम् ।
भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः ॥३३॥ संजी०-इतीति । इति ते सुरास्तमधोभूतमक्षजमिन्द्रियजं ज्ञानं यस्मिंस्तमधोक्षजं विष्णुम् । प्रसादयामासुः प्रसन्नं चक्रुः । हि यस्मात् परमेष्ठिनः सर्वोत्तमस्य तस्य देवस्य सा देवैः कृता भूतार्थव्याहृतिर्भूतस्य सत्यस्यार्थस्य व्याहृतिरुक्तिः ।