________________
रघुवंश महाकाव्ये
व्याख्या - उदकानि =जलानि धीयन्तेऽत्र, उदधिस्तस्य उदधेः सागरस्य रत्नानि=मरणयः इव-यथा, विवस्वत :- सूर्यस्य तेजांसि = दीप्तयः इव - यथा दूराणि= विप्रकृष्टानि वाङ्मनसयोरविषयाणि ते= तव विष्णोः चरितानि चरित्राणि स्तुतिभ्यः = स्तवेभ्यः व्यतिरिच्यन्ते = अधिकानि सन्ति । कैरपि तव सर्वं चरितं स्तोतुं न पार्यते इत्यर्थः । श्रस्मिन् पद्ये समस्तपदाभावात् समासो न दर्श्यते । हिन्दी - समुद्र के रत्नों के समान और सूर्य की किरणों के समान दूर ( वाणी और मन के जो विषय नहीं हैं ) तुम्हारे चरित्र स्तुतियों से ( अतिरिक्त ) परे हैं । अर्थात् सागर के रत्न तथा सूर्यकिरण जैसे असंख्य है वैसे आपके अद्भुत चरित्र भी असंख्य हैं अतः उनकी स्तुति कैसे हो सकती है ||३०||
३५२
अनवाप्तमवाप्तव्यं न ते किंचन विद्यते ।
लोकानुग्रह एवैको हेतुरते जन्मकर्मणोः ||३१||
"
संजी० - श्रनवाप्तमिति । श्रनवाप्तमप्राप्तम् । श्रवाप्तव्यं प्राप्तव्यं ते तव किचन किंचिदपि न विद्यते । नित्यपरिपूर्णत्वादिति भावः तर्हि किनिबन्धने जन्मकर्मणी तत्राह - लोकेति । एको लोकानुग्रह एव ते तव जन्मकर्मणोर्हेतुः । परमकारुणिकस्य ते परार्थैव प्रवृत्तिः, न स्वार्थेत्यर्थः ॥ ३१ ॥
अन्वयः - अनवाप्तम् श्रवासव्यं ते किचन न विद्यते, एकः लोकानुग्रहः एव ते जन्मकर्मणोः हेतुः ।
व्याख्या - न अवाप्तमिति श्रनवाप्तम् = अप्राप्तम् अवाप्तुं योग्यम् अवाप्तव्यं = प्राप्तव्यं ते = तव भगवतः किंचन = किंचिदपि न = नहि विद्यते = प्रस्ति परिपूर्णत्वादित्यर्थः । तर्हि किनिमित्तं जन्म कर्म चेत्याह-लोक्यन्ते इति लोकाः । लोकेषु जनेषु अनुग्रहः = ग्रनुकम्पा इति लोकानुग्रहः एव ते तव जन्म च कर्म चेति जन्मकर्मरणो=उत्पत्तिक्रिये तयोः जन्मकर्मणोः हेतु: कारणम्, लोकानुग्रहकां क्षयैव भगवतः प्रवृत्तिः नतु स्वार्थेति भावः ।
समासः - न अवाप्तमिति श्रनवाप्तम् । लोकेषु अनुग्रह इति लोकानुग्रहः । जन्म च कर्म चेति जन्मकर्मणी तयोः जन्मकर्मणोः ।
हिन्दी - "हे देव !" प्राप्त वस्तु तुम्हारे लिये प्राप्त करने को कुछ भी नहीं है ( क्योंकि आप सदा परिपूर्ण है ) "फिर भी " आपके जन्म लेने तथा कर्म