________________
दशमः सगः
केवलं स्मरणेनैव पुनासि पुरुषं यतः।
अनेन वृत्तयः शेषा निवेदितफलास्त्वयि ॥२९॥ मंत्री०–केवलमिति । स्मरोन केवलं कृत्स्तम् । 'केवलः कृत्स्न एक श्व' . इति शाश्वतः । पुरुषं स्मर्तारं जनं पुनासि । यतः यदित्यर्थः । अनेन स्मृतिकार्यरणव त्वयि त्वद्विषये याः शेषा अवशिष्टा वृत्तयो दर्शनस्पर्शनादयो व्यापारास्ता निवेदितफला विज्ञापित कार्याः । तव स्मरणस्यैवैतत्फलं, दर्शनादीनां तु कियदिति नाव. धारयाम इति भावः ।।२९।।
अन्वयः-यतः स्मरणेन केवलं पुरुषं पुनासि, अनेन एव त्वयि शेषाः वृत्तयः निवेदितफलाः।
व्याख्या-यतः यत् स्मरणेन-प्राध्यानेनः-स्मृत्या केवलं कृतम्नं सर्वमिति यावत् , पुरुष-नरं स्मरणकर्तारमित्यर्थः पुनासि-पवित्रयसि पवित्रं करोषि, अनेन= स्मरणरूपेण कार्येण एवो निश्चिते त्वयि भगवद्विषये याः शेषाः = प्रवशिष्टाः वृत्तयः =वर्तनानि दर्शनस्पर्शनसेवनादिव्यापाराः, ताः निवेदितानि-ज्ञापितानि फलानि कार्याणि यासां ताः निवेदितफलाः सन्तीति शेषः । भवत्स्मरणत्यैव यदा एतत् फल तदा दर्शनस्पर्शनादीनां कियत् फलमिति तु न ज्ञायते ।
समामः-निवेदितं फलं यासां ताः निवेदितफलाः ।
हिन्दी-“हे भगवन्" तुम स्मरण करने से स्मरण करने वाले सब पुरुषों को पवित्र कर देते हो, "तो फिर" इस स्मरणरूप कार्य से तुम्हारे विषय में जो शेष तुम्हारा दर्शन स्पर्शन सेवा आदि व्यापार है, उसका फल विज्ञापित हो जाता है । अर्थात् जब तुम्हारे स्मरग का ही इतना फल है तो दर्शन स्पर्शनादि का कितना फल होगा, यह नहीं कह सकते ॥२९॥
उदधेरिव रत्नानि तेजांसीव विवस्वतः।
स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते ॥३०।। जो०-उदधेरिति । उदधे रत्नानीव । विवस्वतस्तेजांसीव । दूराण्यवाङमनसगोचराणि ते चरितानि स्तुतिभ्यो व्यतिरिच्यन्ते । निःशेषं स्तोतुं न शक्यन्त इत्यर्थः ॥३०॥
अन्वयः-उदधेः रत्नानि इस विवस्वतः तेजांसि इव, दूराणि ते चरितानि स्तुतिभ्यः व्यतिरिच्यन्ते ।