________________
दशमः सर्गः जैसे गंगाजी की सभी धारायें सागर में ही गिरती हैं। अर्थात् मार्ग भिन्न-भिन्न होते हुए भी प्राप्तव्य एक तुम ही हो ॥२६॥
त्वय्यावेशितचित्तानां त्वत्समपितकमणाम् ।
गतिस्त्वं वीतरागाणामभूयःसंनिवृत्तये ।।२।। संजी०–त्वयोति । त्वय्यावेशितं निवेशितं चित्तं यस्तेषाम् । तुभ्यं समर्पितानि कर्माणि यैस्तेषाम् । ‘मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि कौन्तेय ! प्रतिजाने प्रियोऽसि मे ॥' (गी. ९।३४ ) इति भगवद्वचनात् । वीतरागाणां विरक्तानामभूयःसंनिवृत्तयेऽपुनरावृत्तये । मोक्षायेत्यर्थः । त्वमेव गतिः साधनम् । 'तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' (श्वेता. ६।१५) इति श्रुतेरित्यर्थः ॥२७॥
अन्वयः-त्वयि आवेशितचित्तानां स्वत्समर्पितकर्मणां वीराणाम् अभूयः संनिवृत्तये त्वम् "एव" गतिः “असि इति शेषः"।
व्याख्या-त्वयि भगवति परमेश्वरे प्रासमन्तात् वेशितं संनिवेशितं चित्तं = मनः यैस्ते तेषाम् आवेशितचित्तानाम्, तुम्यं भगवते परमेश्वराय सम्यगर्पितानि= दत्तानि कर्माणि क्रियाः यस्तै तेषां त्वत्समर्पितकर्मणाम्, रञ्जनं रागः, वीतः नष्टः रागः मात्सयं विषयवासना येषां ते तेषां वीतरागाणाम्, न भूयः अभूयः-अपुनः संनिवर्तनं संनिवृत्तिः, तस्य संनिवृत्तये-आगमनाय प्रभूयः संनिवृत्तये-अपुनरागमनाय मोक्षायेत्यर्थः । त्वं-विष्णुरेव गम्यते-प्राप्यतेऽनया गतिः अभ्युपायः साधनमित्यर्थः असि । त्वदतिरिक्तो मोक्षोपायः नास्तीति भावः।।
समासः- आवेशितं चित्तं यैस्ते तेषाम् आवेशितचित्तानाम् । त्वयि समर्पितानि कर्माणि यैस्ते तेषां त्वत्समर्पितकर्मणाम् । वीतः रागः येभ्यः ते तेषां वीतरागाणाम् । न भूयः अभूयः ।
हिन्दी-तुम्हारे में चित्त को लगाने वाले ( सदा भगवान का ध्यान करने वाले ) और तुम्हारे लिये सब कर्मों को समर्पण करने वाले, तथा विषयवासनाराग द्वेष शून्य विरक्तों के फिर संसार में म लौटने के साधन उपाय तुम ही हो । अर्थात् विरक्त योगियों को मुक्ति देनेवाले तुम्ही हो ॥२७॥