Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
३४८
रघुवंशमहाकाव्ये
समास:-शब्दः आदिः येषां ते शब्दादयस्तान् शब्दादीन् । हिन्दी-"और हे भगवन्" कृष्णादि रूप से शब्द स्पर्श रूप, रस, गन्ध आदि विषयों को भोगने के लिये, “तथा नरनारायण रूप से" कठोर तपस्या करने के लिये, और राम रूप से प्रजा का पालन करने के लिये, बुद्ध रूप से तटस्थ रहने के लिये तुम ही समर्थ हो। भोग तप पालन और उदासीनता जैसा विरोधी व्यवहार करने में तुमसे अतिरिक्त कौन समर्थ है ? कोई नहीं ॥२५॥
बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः ।
त्वय्येव निपतन्त्योघा जाह्नवीया इवार्णवे ॥२६।। संजी०-बहुधेति । प्रागमैस्त्रयीसांख्यादिभिर्दर्शन बहुधा भिन्ना अपि सिद्धिहेतवः पुरुषार्थसाधकाः पन्थान उपायाः। जाह्नब्या इमे जाह्नवीया गाङ्गाः। 'वृद्धाच्छः' (पा. ४।२।११४ ) इति छप्रत्ययः । ओघाः प्रवाहाः । तेऽप्यागमैरा. गतिभिबहुधा भिन्नाः सिद्धिहेतवश्च । अर्णव इव त्वय्येव निपतन्ति प्रविशन्ति । येन केनापि रूपेण त्वामेवोपयान्तीत्यर्थः । यथाहुराचार्या:--'कि बहुना कारवो. ऽपि विश्वकर्मेत्युपासते' इति ।।२६।।
अन्वयः-भागमैः बहुधा भिन्नाः अपि सिद्धिहेतवः पन्थानः, जाह्नवीयाः ओघा: "श्रागमैः भिन्नाः अपि" अर्णवे इव त्वयि एव निपतन्ति ।
व्याख्या-आगमैः वेदादिशास्त्रः बहुधा-बहप्रकारैः भिन्नाः अपि सिद्धीनां = पुरुषार्थानां हेतवः- कारणानि, इति सिद्धिहेतवः मोक्षसाधकाः वा पन्थान:-मार्गाः =उपाया इत्यर्थः षड्दर्शनोक्ताः, उपाया इति यावत् । जहातीति जङ्गः । जह्नोः= राजर्षिविशेषस्य अपत्यं स्त्री जाह्नवी। तस्याः इमे जाह्नवीयाः- गंगासंबन्धिनः, मोघाः जलप्रवाहाः ( आगमः गतिभिः भिन्नाः- पृथग्भूताः प्रवाहाः ) अर्णवे सागरे इव- यथा त्वयि-भगवति विष्णौ एवो निश्चये निपतन्ति = प्रविशन्ति । सर्वदेवनमस्कारः केशवं प्रतिगच्छतीति येन केनापि प्रकारेण विष्णुमेव दर्शनमार्गाः प्राप्नुवन्तीति भावः ।
समासः-- सिद्धीनां हेतवः सिद्धिहेतवः । हिन्दी-“हे भगवन्" षड्दर्शनों से अनेक प्रकार के भिन्न-भिन्न बताये गये मोक्षरूपी परमपुरुषार्थ के उपाय उसी प्रकार केवल आप में ही प्रविष्ट होते हैं,