Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
दशमः सर्गः
प्रार्थनानामावहः कामदः अजितोऽन्येन जितः। जिष्णुर्जयशीलः । अत्यन्तमव्यक्तोऽतिसूक्ष्मरूपः । व्यक्तस्य स्थूलरूपस्य कारणम् ॥१८॥
अन्वयः-हे देव ! स्वम् अमेयः सन् मितलोकः अनर्थी सन् प्रार्थनावहः अजितः सन् जिष्णुः अत्यन्तम् अन्यतः मन् व्यक्तकारणम 'असीति शेषः' ।
व्याख्या--हे देव ! त्वं सर्वव्यापकः विष्णुः मातुं योग्यः मेयः, न मेयः अमेयः-इयत्तया परिच्छेद्यो न, मित:-परिच्छिन्नः लोकः = भुवनं येन स मितलोकः, अर्थोऽस्यास्तीति अर्थी, न अर्थी अनर्थी निस्पृहः सन् , आवहतीति प्रावहः । प्रार्थनायाः याचनायाः प्रावहः = प्रदाता इति प्रार्थनावहः मनोरथप्रद इत्यर्थः । न जितः अजितः अपरैर्न विजितः सन् जयति तच्छीलः जिष्णुः-विजयशीलः, अन्तम् प्रतिक्रान्तम् अत्यन्तम्-सर्वथा न व्यक्तः अव्यक्तः-अप्रकटः सन्नित्यर्थः । व्यक्तस्य-स्थूलरूपस्य कारणं-निदानमिति व्यक्तकारणम् त्वमसीति शेषः ।।
समासः-न मेयः अमेयः । मितः लोकः येन स मितलोकः । न अर्थते इति अनर्थी । प्रार्थनायाः प्रावहः प्रार्थनावहः । न जितः अजितः। न व्यक्तोऽव्यक्तः। व्यक्तस्य कारणमिति व्यक्तकारणम् ।
हिन्दी-हे देव ! आप अपरिमेय (इतने हैं इस प्रकार से लोगों से नहीं नापे जा सकते हैं ) होते हुए भी, भुवनों को नापने वाले हैं। आप निस्पृह होते हुए भी "सबकी" प्रार्थना को पूर्ण करने वाले, और अजेय होते हुए भी "सबको" जीतने वाले, तथा अप्रकटरूप होते हुए भी स्थूलरूप इस संसार के कारण हैं ॥१८॥
हृदयस्थमनासन्नमकामं त्वां तपस्विनम् ।
दयालुमनघस्पृष्टं पुराणमजरं विदुः ।।१६।। संजी०–हृदयेति । हे देव ! त्वां हृदयस्थं सर्वान्तर्यामितया नित्यसंनिहितं तथाप्यनासन्नमगम्यरूपत्वाद्विप्रकृष्टं च विदुः । संनिकृष्टस्यापि विप्रकृष्टत्वमिति विरोधः । तथाऽकामम् । न कामोऽभिलाषोऽस्य तं परिपूर्णत्वान्निःस्पृहत्वाच्च निष्कामम् । तथापि तपस्विनं तापमं विदुः । यो निष्कामः स कथं तपः कुरुत इति विरोधः । परिहारस्तु-ऋपिरूपेण दुस्तरं तपस्तप्यते। दयालु परदुःखप्रहाणप तथाप्यनघस्पृष्टं नित्यानन्दस्वरूपत्वाददुःखिनं विदुः । 'अघं दुरितदुःखयोः' इति विश्वः । दयालुरदुःखी चेति विरोधः। 'ईी घृणी त्वसंतुष्टः क्रोधनो नित्यशङ्कितः ।