________________
दशमः सर्गः
योनिः कारणम् । त्वमात्मन एव भवतीत्यात्मभूः । न ते किंचित्कारणमस्तीत्यर्थः । त्वं सर्वस्य प्रभुः । त्वमनीशः । त्वमेकः सर्वरूपभाक् । त्वमेक एव सर्वात्मना वर्तस इत्यर्थः ॥२०॥
सम्बय.--'हे देव !” त्वं सर्वज्ञः सन् अविज्ञातः त्वं सर्वयोनिः सन् आत्मभूः त्वं सर्वप्रभुः सन् अनीशः, त्वम् एकः सन् सर्वरूपभाक् (असीति शेषः)।
व्याख्या-हे देव ! त्वं-विष्णुः सर्व-विश्वं जानाति-वेत्तीति सर्वज्ञः सन् न विज्ञातः अविज्ञातः- कैश्चिदपि न ज्ञातः । त्वम् सर्वस्य-सर्वलोकस्य योनिः प्रभवः सर्वयोनिः सन् प्रात्मनः-स्वस्मात् भवति-जायते, इति प्रात्मभूः-न ते किमपि कारणान्तरं विद्यते स्वयम्भूरित्यर्थः । त्वं सर्वस्य-अखिलस्य प्रभुः ईशः, सर्वप्रभुः सन् स्वयं- स्वात्मना न ईशः यस्य सः अनीश:-स्वामिरहितः त्वं-विष्णुः एकःअद्वितीय एव सर्वारिणः अखिलानि रूपाणि-स्वरूपाणि भजतीति सर्वरूपभाक्= अखिलात्मा असि सर्वात्मना त्वमेवासि। ____ममासः-सर्वं जानातीति सर्वज्ञः । न विज्ञातोऽविज्ञातः । सर्वस्य योनिः सर्वयोनिः । सर्वस्य प्रभुः सर्वप्रभुः । न विद्यते ईशः यस्य सः अनीशः । सर्व रूपं भजते इति सर्वरूपभाक । ___fदी--हे देव ! तुम सबको जानते हो, किन्तु तुम किसी से नहीं जाने गये हो। तुम विश्व के कारण हो किन्तु तुम स्वयम् कारणरहित हो, और तुम सबके प्रभु स्वामी हो, किन्तु तुम्हारा कोई स्वामी नहीं है, तुम एक अद्वितीय होते हुए भी सब रूपों को धारण करते हो । अर्थात् आप विश्वात्मा सर्वात्मा हो ॥२०॥
सप्तसामोपगीतं त्वां सप्ताणवजलेशयम् ।
सप्ताचिमुग्वमाचख्युः सप्तलोकैकसंश्रयम् ।।२१।। संजी-सप्तेति । हे देव ! त्वां सप्तभिः सामभी रथंतरादिभिरुपगीतम् । 'तद्धितार्थ-' (पा. २।१।५१ ) इत्युत्तरपदसमासः । सप्तानामगवानां जलं सप्तागवजलम् । पूर्ववत्समासः । तत्र शेते यः स सप्तार्णवजलेशयः । तम्। 'शयवासवासिम्वकालात्' ( पा. ६।३।१८ ) इत्यलुक । सप्ताचिर्मुखं यस्य तम् । 'अग्निमुखा = देवाः' इति श्रुतेः, सप्तानां लोकानां भूर्भुवःस्वरादीनामेकसंश्रयम् । एवंभूतमाचख्युः ॥२१॥