________________
३००
रघुवंशमहाकाव्ये वाले राजा दशरथ ने उन चमर-मृगों के श्वेत चामरों को काटकर उसी प्रकार शान्ति को प्राप्त किया जैसे कि राजाओं को चवरों से रहित करके सुख प्राप्त किया है । अर्थात् शूरवीर राजा दूसरे के छत्र-चामर को ही सहन नहीं कर सकता है, जीवित रहने को सहन कर सकता है ॥६६॥ अपि तुरगसमीपादुत्पतन्तं मयूरं
न स रुचिरकलापं बाणलक्ष्यीचकार । सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे
तिविगलितबन्धे केशपाशे प्रियायाः ॥६७।। संजी.--अपीति । स नृपस्तुरगसमीपादुत्पतन्तमपि । सुप्रहारमपीत्यर्थः । रुचिरकलापं भासुरबर्हम् । मह्यामतिशयेन रौतीति मयूरो बहीं। पृषोदरदित्वा. साधुः । तं चित्रेण माल्येनानुकीणे रतौ विगलितबन्धे प्रियायाः केशपाशे सपदि गतमनस्कः प्रवृत्तचित्तः। 'उरःप्रभृतिभ्यः कप' (पा. ११४९५१) इति कप्प्रत्ययः । न बाणलक्ष्योकार । न प्रजहारेत्यर्थः ॥६॥
अन्वयः-सः तुरगसमीपाद् उत्पतन्तम् अपि रुचिरकलापम् मयूर चित्रमाल्यानुकीर्णे रतिविगलितबन्धे प्रियायाः केशपाशे सपदि गतमनस्कः न बाणलीचकार ।
व्याख्या-सः राजा तुरेण-त्वरया गच्छतीति तुरगः, तुरगस्य अश्वस्य समीपं=सन्निकटम्-अन्तिकमिति तुरगसमीपं तस्मात् तुरगसमीपात् उत्पतन्तम् = उद्गच्छन्तम् अपि रुचिरः=भासुरः कलापः = बर्हः यस्य स तं रुचिरकलापम् मयरम्बर्हिणम् चित्रम्-अनेकविधञ्च तन्माल्यं = माला, इति चित्रमाल्यं तेन अनुकीर्णः-व्याप्तस्तस्मिन् चित्रमाल्यानुकीणे रतौ-सुरते विगलितः त्रुटितः बन्धः= ग्रथनं यस्य स तस्मिन् रतिविगलितबन्धे प्रियायाः स्वभार्यायाः केशानां पाशः केशपाशस्तस्मिन् केशपाशे-कचबन्धे = शिखायामित्यर्थः सपदि-तत्क्षणे मयरावलोकनसमये इत्यर्थः गतं--प्रवृत्तं मनः- चित्तं यस्य स गतमनस्कः न-नहि बाणानां लक्ष्यं बारणलक्ष्यं, न बारणलक्ष्यमिति अबागलक्ष्यम्, अबाण लक्ष्यं बागलक्ष्य कृतवान् इति बाणलक्ष्यीचकार = प्रहारं कृतवान् ।