________________
नवमः सगः
व्याख्या-तेन-मुनिपुत्रेण चोदितः-प्रेरितः इति तचोदितः 'माम् पितृसमीपं प्रापय' इत्युक्त इत्यर्थः स नृपतिः राजा दशरथः न उद्धृतम् अनुद्धृतम् अनुत्पाटितं शल्यं-शरो यस्य स तम् अनुद्धृतशल्यम् एव तं-मुनिपुत्रम्, अवसन्ना=नष्टा दृग्= चक्षुः ययोस्तौ तयोः अवसन्नदृशोः अन्धयोरित्यर्थः, माता च पिता च पितरौ तयोः पित्रोः मातापित्रोः सकाश-समीपं निनाय=निन्ये, तथा--तं प्रकारं गतं प्राप्तमिति तथागतं वेतसैः गूढम्, एकः केवलश्चासौ पुत्रः सुतः इति एकपुत्रस्तम् एकपुत्रम् तं श्रवणकुमारम् उपत्य-समीपं गत्वा प्रज्ञानादिति अज्ञानतः गजभ्रान्त्या स्वेनदशरथेन चरितं कृतमिति सुतवधरूपं स्वचरितं ताभ्यां मातापितृभ्यां शंशस कथयामास । वाल्मीकिरामायणे तु मृतपुत्रस्य समीपमेव तत्पित्रोः समानयनमिति ज्ञेयम् ।
समासः तेन चोदितस्तचोदितः । न उद्धृतं शल्यं यस्य सः तम् अनुद्धृतशल्यम् । अवसन्ना दृग ययोस्तौ तयोः अवसन्नदृशोः । तथा गतस्तं तथागतम् । एकश्चासौ पुत्रस्तम् एकपुत्रम् । स्वेन चरितं स्वचरितम्, तत् ।
हिन्दी-मुनिपुत्र से प्रेरित ( कहने पर ) राजा दशरथ ने, ( उसके शरीर से ) बाण को निकाले बिना ही श्रवणकुमार को, अन्धे मातापिता के पास पहुँचा दिया, "और" बेंत की झाड़ी से छिपे हुए, इकलौते पुत्र को अज्ञानवश हाथी की भ्रान्ति से मैंने मार दिया है यह बात पास जाकर उसके मातापिता से कह दी । वस्तुतः यह रामायण से विरुद्ध है। क्योंकि अन्धे मातापिता को हो तमसा नदी के तीर पर ले जाकर दिखाया ऐसा वहाँ वर्णन है ॥७७।। तौ दंपनी बहु विलप्य शिशोः प्रहा
शल्यं निखातमुदहारयतामुरस्तः । सोऽभूत्परासुरथ भूमिपति शशाप
हस्तापितैनयनवारिभिरेव वृद्धः ॥७॥ संजी०–ताविति । तौ जाया च पतिश्च दंपती। राजदन्तादिषु 'जाया'शब्दस्य दम्भावो जम्भावश्च विकल्पेन निपातितः। 'दंपती जंपती जायापती भार्यापती च तौ' इत्यमरः । बहु विलप्य भूयिष्ठं परिदेव्य । 'विलापः परिदेवनम्' इत्यमरः । शिशोरुरस्तो वक्षसः। 'पञ्चम्यास्तसिल' (पा. ५।३७)। निखातं शल्यं शरं प्रहा