________________
३१८
रघुवंशमहाकाव्ये
समासः-प्रथितः अन्वयो यस्य स प्रथिता त्वयः तेन तथोक्तेन । पृष्टः अन्वयो यस्य स पृष्टान्वयः। जलस्य कुम्भः जलकुम्भः, जलकुम्भे निषण्णः देहो यस्य स जलकुम्भनिषण्णदेहः । द्विजेभ्यः इतरः द्विजेतरः, द्विजेतरश्चासौ तपस्वीति द्विजेतरतपस्वी तस्य सुतस्तं द्विजेतरतपस्विसुतम् । अक्षरप्रायाणि पदानीति प्रक्षरपदानि तैः अक्षरपदैः।
हिन्दी-प्रसिद्ध वंश वाले राजा दशरथ ने घोड़े पर से उतर कर "मुनिपुत्र का" कुल ( जाति ) पूछा, ( ब्रह्महत्या के डर से ) और जल के घड़े के ऊपर पड़े शरीरवाले उस मुनिकुमार ने राजा से लड़खड़ाती टूटे-फूटे अक्षर वाली वाणी से अपने को ब्राह्मण क्षत्रिय और वैश्य से भिन्न तपस्वी का लड़का बताया। अर्थात् हे राजन् ! में बनिया पिता तथा शूद्रा माता से उत्पन्न करण जाति का हूं । अतः ब्रह्महत्या की आशंका न कीजिये ।।७६।। तच्चोदितः स तमनुद्धृतशल्यमंव
पित्रोः सकाशमवसन्नदृशोर्निनाय । ताभ्यां तथागतमुपेत्य तमेकपुत्र
मज्ञानतः स्वचरितं नृपतिः शशंस ||७|| संजी.-तदिति । तच्चोदितस्तेन पुत्रेण चोदितः 'पितृसमीपं प्रापय' इत्युक्तः स नृपतिरनुद्धृतशल्यमनुत्पाटितशरमेव तं मुनिपुत्रम् । अवसन्नदृशोर्नष्टचक्षुषोः । अन्धयोरित्यर्थः । पित्रोर्मातापित्रोः । 'पिता मात्रा' (पा. ११२७० ) इत्येकशेषः। सकाशं समीपं निनाय । इदं च रामायणविरुद्धम् । तत्र-'अथाहमेकस्तं देशं नोत्वा तौ भृशदुःखितौ । अस्पर्शयमहं पुत्रं तं मुनि सह भार्यया ॥' ( अयोध्या. ६४।२८ ) इति नदीतीर एव मृतं पुत्र प्रति पित्रोरानयनाभिधानात् । तथागतं वेतसगूडम् । एकश्चासौ पुत्रश्च तमेकपुत्रम् । 'एक'ग्रहणं पित्रोरनन्यगतिकत्वसूचनार्थम् । तं मुनिपुत्रमुपेत्य संनिकृष्टं गत्वाऽज्ञानतः करिभ्रान्त्या स्वचरितं स्वकृतं ताभ्यां मातापितृभ्याम् । क्रियाग्रहणाच्चतुर्थी । शशंस कथितवान् ।।७७॥ ___ अन्वयः- तच्चोदितः नृपतिः अनुद्धतशल्यम् एव तम अवसन्नदृशोः पित्रोः सकाशं निनाय, "च" तथागतम् एकपुत्रं तम् उपेत्य अज्ञानतः स्वचरितं ताभ्यां शशंस ।