________________
रघुवंशमहाकाव्ये समासः-वसुधायाः अधिपः, वसुधाधिपस्तेन वसुधाषिपेन । गता घृणा गस्य स गतघृणः । दारैः सहितः सदारः। परागताः असवो यस्य स तं परासुम् । अनुगन्तुं मनः यस्य सोऽनुगन्तुमनाः।
हिन्दी-यह सब हो जाने पर पृथिवी के स्वामी दशरथ ने “कहा कि" दया से हीन, निर्दयी, इसीलिये शिर काट देने योग्य यह व्यक्ति (अर्थात् मैं दशरथ ) क्या करे, इस प्रकार कहे गये उस मुनि ने अपनी स्त्री सहित परलोकगत पुत्र के पीछे जाने की इच्छा से अग्नि वाले इन्धन की याचना की। अर्थात् अग्नि व जलतो लकड़ी माँगी ॥८१।।
प्राप्तानुगः सपदि शासनमस्य राजा
____संपाद्य पातकविलुप्तधृतिनिवृत्तः । अन्तर्निविष्टपदमात्मविनाशहेतुं
शापं दधज्ज्वलनमौर्वमिवाम्बुराशिः ।।२।। संजी–प्राप्नेति । प्राप्तानुगः प्राप्तानुचरो राजा सपद्यस्य मुनेः शासनं काष्ठसंभारणरूपं प्रागेकोऽपि संप्रति प्राप्तानुचरत्वात्संपाद्य पातकेन मुनिवधरूपेण विलुप्तधृतिर्नष्टोत्साहः सन् । अन्तर्निविष्टपदमन्तलब्धस्थानमात्मविनाशहेतुं शापम् । अम्बुराशिरौवं ज्वलनं वडवानलमिव । 'पौवस्तु वाडवो वडवानलः' इत्यमरः । दघद् धृतवान्सन् निवृत्तः । वनादिति शेषः ।।८२॥
अन्वयः-प्राप्तानुगः राजा सपदि अस्य शासनं संपाद्य, पातकविलुप्त धृतिः सन् अन्तर्निविष्टपदम् श्रात्मविनाशहेर्नु शापम् अम्बुराशिः और्वम् इत्र दधत् निवृत्तः ।
व्याख्या--- अनु-पश्चात् गच्छन्तीति अनुगाः । प्राप्ताः प्रागताः अनुगाःअनुचराः सेवकाः यस्य स प्राप्तानुगः राजा दशरथः सपदितत्क्षणमेव अस्य-मुनेः शासनम्-प्राज्ञां अग्निकाष्ठानयनरूपमित्यर्थः सम्पाद्य-कृत्वा पातयतीति पातक पातकेन-पापेन मुनिकुमारवधरूपेणेत्यर्थः । विलुप्ता=नष्टा धृतिः धर्यमुत्साहः यस्य स पातकविलुप्तधृतिः सन् अन्तः हृदये निविष्टं स्थितं लब्धं पदं स्थानं येन स तम् अन्तर्निविष्टपदम्, आत्मनः स्वस्य विनाशः-मरणं तस्य हेतुः कारणमिति