________________
३२८
रघुवंशमहाकाव्ये प्रकाश को अभी तक प्राप्त नहीं किया। अर्थात् राजा को अभी तक पुत्ररत्न की प्राप्ति नहीं हुई ॥२॥
अनिष्ठत्प्रत्ययापेक्ष संततिः स चिरं नृपः ।
प्राङ्मन्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णवः ॥३॥ संजी-अतिष्ठदिति । प्रत्ययं हेतुमपेक्षत इति प्रत्ययापेक्षा संततिर्यस्य स तथोक्तः । 'प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्यमरः, स नृपः । मन्थात्प्राङ्मन्थनात्पूर्वमनभिव्यक्ताऽदृष्टा रत्नोत्पत्तिर्यस्य सोर्णव इव । चिरमतिष्ठत् । सामग्र्यभावाद्विलम्बो न तु वन्ध्यत्वादिति भावः ॥३॥
अन्वयः-प्रत्ययापेक्षसन्ततिः सः नृपः मन्थात् प्राक अनभिव्यक्तरत्नोत्पत्तिः अर्णवः इव चिरम् अतिष्ठत् ।
व्याख्या-प्रतीयतेऽनेनेति प्रत्ययः। अपेक्षते इति अपेक्षा । प्रत्ययस्य हेतोः पुत्रेष्टिरूपस्येत्यर्थः अपेक्षा-आकांक्षिणी, इति प्रत्ययापेक्षा । प्रत्ययापेक्षा सन्ततिः= सन्तानः यस्य स प्रत्ययापेक्षसन्ततिः सः प्रसिद्धः नृपः-नरेन्द्रः, मन्थात्-मन्थनात् प्राक-पूर्वम्, न अभिव्यक्ता अनभिव्यक्ता, अनभिव्यक्ता-अदृष्टा रत्नानां= हीरकादीनाम् उत्पत्तिः उद्भवः यस्य सः'अनभिव्यक्तरत्नोत्पत्तिः, अर्णासि सन्ति अस्य सोऽर्णवः समुद्रः इव यथा चिरं-बहुकालम् अतिष्ठत् प्रवसत् , प्रतीक्षितवानिति ।
समासः-प्रत्यययम् अपेक्षते इति । प्रत्ययापेक्षा, प्रत्ययापेक्षा सन्ततिः यस्य स प्रत्ययापेक्षसंततिः। रत्नानामुत्पत्तिः रत्नोत्पत्तिः । अनभिव्यक्ता रत्नोत्पत्तिर्यस्य सोऽनभिव्यक्तरत्नोत्पत्तिः।
हिन्दी-"पुत्रेष्टिरूप" सामग्री की अपेक्षा करने वाली है सन्तति जिसकी ऐसे राजा दशरथ उस समुद्र के समान चिरकाल तक, (पुत्रोत्पत्ति की आशा में ) बैठे रहे, जिसके मन्थन से पहले रत्नों की उत्पत्ति नहीं देखी गयी थी ॥३॥
ऋष्यशृङ्गादयस्तस्य सन्तः सन्तानकाक्षिणः ।
आरेभिरे जितात्मानः पुत्रीयामिष्टिमृत्विजः ।।४।। संजी०-ऋष्यशृङ्गेति । ऋष्यशृङ्गादयः । ऋष्यशृङ्गो नाम कश्चिदृषिः । तदादयः । ऋतुमृतौ वा यजन्तीत्यत्विजो याज्ञिकाः। 'ऋत्विग्दधृक्-' (पा.