________________
३१४
रघुवंशमहाकाव्ये कुम्भपूरणभवः पटुरुच्चैरुच्चचार निनदोऽम्भसि तस्याः। तत्र म द्विरदबृंहितशङ्को शब्दपातिनमिषु विससर्ज ॥७३॥
संजो०-कुम्भेति । तस्यास्तमसाया अम्भसि कुम्भपूरणेन भव उत्पन्नः । पचाद्यच् । पटुमधुरः। उच्चगम्भीरो निनदो ध्वनिरुच्चचारोदियाय । तत्र निनदे स नृपः । द्विरदबृंहितं शङ्कत इति द्विरदबृंहितशङ्की सन्, शब्देन शब्दानुसारेण पततीति शब्दपातिनमिषं विससर्ज । स्वागतावृत्तम् ॥७३॥
अन्वयः--तस्याः अम्भसि कुम्भपूरणसम्भवः पटुः उच्चैः निनदः उच्चचार, तत्र सः द्विरदबृंहितशंकी सन् शब्दपातिनम् इषु विससर्ज ।
व्याख्या-तस्याः तमसायाः अम्भसि-जले, कं जलम् उम्भतीति कुम्भः । कुंभुवं, कुत्सितं वा उम्भतीति कुम्भः कुम्भस्य पूरणं कुम्भपूरणं तेन कुम्भपूरणेन= कलशपूरणेन संभवः उत्पन्नः, इति कुम्भपूरणसंभवः पटुः मधुरः उच्चैः-गभीरः निनदः शब्दः उच्चचार-उदियाय, उत्पन्न इत्यर्थः । तत्र-तस्मिन् निनदे सः राजा दशरथः द्वौ रदौ यस्य स द्विरदः। द्विरदस्य-गजस्य बृंहितं गजितं शंकते-पाशंकते यः स द्विरदबृंहितशंकी सन् शब्देन-शब्दानुसारेण पतति-गच्छतीति शब्दपाती तं शब्दपातिनम् = शब्दवेधिनम् इषु-बाणं विसर्ज-तत्याज । हस्तिगर्जनभ्रमेण कलशपूरणध्वनि लक्ष्यीकृत्य शब्दवेधिबारणं प्रक्षिप्तवानित्यर्थः ।।
समासः-कुम्भस्य पूरणं कुम्भपूरणं तेन संभवः कुम्भपूरणसंभवः । द्विरदस्य बृंहितमिति द्विरदद्वहितं शंकते, इति द्विरदबृंहितशंको। शब्देन पतति तच्छीलः शब्दपाती तं शब्दपातिनम् ।
हिन्दी-उस तमसा नदी के जल में घड़े के भरने से उत्पन्न हुआ मधुर एवं गम्भीर शब्द ( आवाज ) उच्चरित हुआ, और उस शब्द में राजा दशरथ ने हाथी की गर्जना की आशंका करके शब्दवेधी बाण छोड़ दिया। भाव यह है कि श्रवणकुमार अपने अन्धे माता-पिता के लिये जल भर रहा था, और राजा ने हाथी की गर्जना के भ्रम में उसे लक्ष्य करके शब्दवेधी बाण चला दिया ॥७३॥
नृपतेः प्रतिषिद्धमेव तत्कृतवान्पतिरथो विलय यत् । अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः ॥७४।।