Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
सप्तमः सर्गः
१०१
हिन्दी - वहाँ पूजा किये गये और अग्नि के समान तेजस्वी, भोजराज के पुरोहित ने घृतादि सामग्री से हवन करके तथा उसी अग्नि को साक्षी ( गवाह ) बनाकर वधू और वर को मिला दिया अर्थात् गठबन्धन कर दिया ॥ २० ॥
हस्तेन हस्तं परिगृह्य वध्वाः स राजसूनुः सुतरां चकासे । अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन ||२१|| संजी० = हस्तेनेति । स राजसूनुर्हस्तेन स्वकीयेन वध्वा हस्तं परिगृह्य । अनन्तरायाः संनिहिताया अशोकलतायाः प्रवालं पल्लवं प्रतिपल्लवेन स्वकीयेन प्राप्य चूत आम्र इव सुतरां चकासे ॥ २१ ॥
अन्वयः—–सः राजसूनुः हस्तेन वध्वाः हस्तं परिगृह्य अनन्तराशोकलताप्रवालं प्रतिपल्लवेन प्राप्य चूतः इव सुतरां चकासे ।
व्याख्या - सः = पूर्वोक्तः राज्ञः = रघोः सूनुः = पुत्रः राजसूनुः हस्तेन = स्वकरेण वध्वाः=नवोढायाः = इन्दुमत्याः हस्तं = करं परिगृह्य गृहीत्वा, अनन्तराया:= समीपस्थायाः अशोकलतायाः=वञ्जुललतायाः प्रवालं = पल्लवं प्रतिपल्लवेन : स्वकीयप्रवालेन प्राप्य = अवाप्य चूतः = आम्रः इव = यथा सुतराम् = अत्यन्तं चकासे =शुशुभे ।
S
समास: - राज्ञः सूनुरिति राजसूनुः । अशोकस्य लता अशोकलता, न विद्यते अन्तरं यस्याः सा अनन्तरा च सा अशोकलता च अनन्तराशोकलता तस्याः प्रवालमिति अनन्तराशोकलताप्रवालम्, तत् । प्रतिकूलञ्च तत्पल्लवमिति प्रतिपल्लवं तेन प्रतिपल्लवेन ।
हिन्दी - वह रघु का पुत्र अपने हाथ से वधू इन्दुमती के हाथ को पकड़कर वैसे ही अतीव शोभा को प्राप्त हुआ जैसे कि संनिहित अशोक लता के (लाल ) पल्लव को प्राप्त कर आम का पेड़ सुशोभित होता है । अर्थात् अशोकलता की लाल पत्ती से मिलकर आम की तरह इन्दुमती के हाथ को अपने हाथ में लेकर अज भी खूब मनोहर लगने लगा ।। २१ ।।
आसीद्वरः कण्टकित प्रकोष्ठः स्विन्नाङ्गलिः संववृते कुमारी । तस्मिन्द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन ||२२|| संजी० - आसीदिति । वरः कण्टकितः पुलकितः प्रकोष्ठो यस्य स आसीत् । 'सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः' इत्यमरः । कुमारी स्विन्नाङ्गुलिः संववृते