________________
३००
रघुवंशमहाकाव्ये हिन्दी-राजा दशरथ ने छोटे छोटे तलाबों से निकलकर भागते हुए सुअरों के मुण्ड के उस मार्ग का अनुसरण किया, जो कि ताजे हरे मोथे के ग्रासों के मुट्ठों से भरा था ( अर्थात् भागने के कारण थकावट से सुअरों के मुख खुल गये, और उन से आधा खाया मोथा निकलकर रास्ते में गिरा था) और लम्बी तथा कीचड़ में सने पैरों की पांत से (पदचिह्न से) साफ जान पड़ रहा था ॥५९॥ तं वाहनादवनतोत्तरकायमोष
द्विध्यन्तभुद्धृतसटाः प्रतिहन्तुमीषुः । नात्मानमस्य विविदुः सहसा वराहा
वृक्षेषु विद्धमिषुभिर्जधनाश्रयेषु ॥६०॥ संजी०-तमिति । वराहाः । वाहनादश्वादीषदवनतोत्तरकायं किंचिदानतपूर्वकायं विध्यन्तं तं नृपम् । उद्धृतसटा ऊर्ध्वकेसराः सन्तः । 'सटा जटाकेसरयोः' इति केशवः । प्रतिहन्तुमीषुः प्रतिहतुमच्छन् । अस्य नृपस्येषुभिः सहसा जघनानामाश्रयेष्ववष्टम्भेषु वृक्षेषु विद्धमात्मानं न विविदुः । एतेन वराहाणां मन स्वत्वं नृपस्य हस्तलाघवं चोक्तम् ॥६०॥
अन्वयः-वराहाः वाहनात् ईषत् अवनतोत्तरकायम् विध्यन्तं तम्, उद्धृतसटाः सन्तः प्रतिहन्तुम् ईषुः, अस्य इषुभिः सहसा जघनाश्रयेषु वृक्षेषु विद्धम् प्रात्मानं न विविदुः ।
व्याख्या-वराहाः वनसूकराः वाहनात् अश्वात् ईषत् किंचित् चोयतेऽनादिभिः इति कायः । उत्तरश्चासौ कायः उत्तरकायः । अवनत:=पानतः उत्तरकायः पूर्वदेहो यस्य स तम् अवनतोत्तरकायम् विध्यन्तं प्रहरन्तं तं= दशरथं उद्धृताः ऊर्ध्व नीताः सटाः= जटाः यैस्ते उद्धृतजटाः सन्तः प्रतिहन्तुं-प्रतिप्रहारं कर्तुम् ईषु:- ऐच्छन् , अस्य-राज्ञः इषुभिः=बाणैः सहसा= झटिति, जघनानां कायाग्रभागानाम् प्राश्रयाः- अवष्टम्भारतेषु जघनाश्रयेषु वृक्षेषु-पादपेषु विध्यते स्म विद्धम् । विद्धं वेधितं- छिद्रितम् प्रात्मानं स्वं न= नहि विविदुः जानन्ति स्म । एतेन सूकराणां धैर्य दशरथस्य च हस्तकौशलं च दर्शितमिति।