Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
जवमः सर्गः
३०३
डान् चकार, “यतः' दृप्तविनयाधिकृतः सः परेषाम् अत्युच्छ्रितं शृंगं न ममृषे, दीर्घम् आयुः न ममृषे इति न।
व्याख्या-नन् जनान् पाति-रक्षतीति नृपतिः राजा निशितैः= जेंजितः, तीक्ष्णीकृतैः इत्यर्थः, क्षुराणि प्रान्तीति क्षुरप्रास्तैः क्षुरप्रैः बाणविशेषः खड्गान् खङ्गाख्यमृगविशेषान् प्रायः- बाहुल्येन विषारणानां = शृंगाणां परिमोक्षः=भंगः कर्तनमित्यर्थः इति विषाणपरिमोक्षस्तेन लघूनि-अगुरुणि उत्तमांगानि =शिरांसि येषां ते तान् विषाणपरिमोक्षलघूत्तमांगान् चकारकृतवान् नतु जघानेत्यर्थः । यतः दृप्तानां गर्वितानाम् उद्दण्डानामित्यर्थः विनयः= शिक्षणं तस्मिन् अधिकृतः नियुक्तः इति दृप्तविनयाधिकृतः सः राजा दशरथः परेषां प्रतिकूलानां शत्रूणामित्यर्थः अत्युच्छ्रितम्-उन्नतं शृणातीति शृंगम्-विषाणं= प्रभुत्वञ्च न ममषे-न सेहे तु-किन्तु दीर्घम् आयतम् अायुः - जीवितकालं न ममृषे इति न, किन्तु ममृषे एवेति । ___समासः-विषाणानां परिमोक्षस्तेन लघूनि उत्तमांगानि येषां ते तान् विषाणपरिमोक्षलघूत्तमांगान् । दृप्तानां विनयः दृप्तविनयस्तत्र अधिकृत इति दृप्तविनयाधिकृतः।
हिन्दी-राजा ने पैने (धारदार ) अर्धचन्द्राकार बाणों से गैण्डों को ( या बारहसींगों को ) सींगों के काटने से हलके शिरवाले कर दिया। अर्थात् सींग काटकर शिर का भार दूर कर दिया। क्योंकि दुष्टों को दण्ड देने में लगाया हमा वह राजा, शत्रुओं के उन्नत शिर और प्रभुत्व को ही सहन नहीं कर सका, न कि उनके जीवन को, उसे तो वह अवश्य ही सह लेता था ॥६२॥
व्याघ्रानभीरभिमुखोत्पतितान्गुहाभ्यः
फुल्लासनाविटपानिव वायुरुग्णान् । शिक्षाविशेषलघुहस्ततया निमेषा
__ तूणीचकार शरपूरितवक्त्रग्न्ध्रान् ॥६३।। मंजी०-व्याघ्रानिति । अभीनिर्भीकः स धन्वी गुहाभ्योऽभिमुखमुत्पतितान् । वायुना रुग्णान्भग्नान् । फुल्ला विकसिताः । 'अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः'