________________
३०२
रघुवंशमहाकाव्ये
मुक्तः त्यक्तः पत्राणि-पक्षाः सन्त्यस्यासौ पत्रीबाणाः विविधं सुखादि गृह्णातीति विविधैर्व्याधिभिर्वा गृह्यते विग्रहस्तं विग्रहं-महिषस्य शरीरं निर्भिद्य-विदार्य शोणितेन-रुधिरेण लिप्तः शोणितलिप्तः, शोणितलिप्तो न भवतीति अशोणितलिप्तः । अशोणितलिप्तः-रुधिरेणासंस्पृष्टः पुंखः मूलप्रदेशः, यस्य सः अशोणितलिप्तपुंखः सन् तं-महिषं प्रथमं पूर्व पातयामास-पातितवान् स्वयं-शरः पश्चात् भूमौ पतितः। ___ समायः-अभिघाते रभसो यस्य स तस्य अभिघातरभसस्य । नेत्रस्य विवरं तस्मिन् नेत्रविवरे। शोणितेन लिप्तः शोगितलिप्तः, न शोणितलिप्तः अशोणितलिप्तः अशोणितलिप्तः पुङखो यस्य सः अशोरिणतलिप्तपुंखः।
हिन्दी-सामने से मारने को तैयार ( राजा पर झपटने को ) जंगली भैंसे की आंख में उस राजा ने ऐसा बाण मारा कि वह बाण भैंसे के शरीर को वीन्धकर स्वयं जरा भी खन से सने विना पहले भैंसे को जमीन में गिरा दिया और पीछे वह बाण भी जमीन में गिरा । इससे बाण चलाने में राजा की चतुरता शीघ्रता ज्ञात होती है ॥६१॥ प्रायो विषाणपरिमोक्षलघूत्तमाङ्गा
न्खगांश्चकार नृपतिनिशितैः क्षुरप्रैः । शृङ्ग स हमविनयाधिकृतः परेषा___मत्युच्छ्रितं न ममृषे न तु दीर्घमायुः ॥६२॥
संजी०–प्राय इति । नृपतिनिशितैः क्षुरप्रैः शरविशेषैः खङ्गान् खङ्गाख्यान्मृगान् । 'गण्डके खङ्गखङ्गिनौ' इत्यमरः । प्रायो बाहुल्येन विषाणपरिमोक्षण शङ्गभङ्गेन लघून्यगुरूण्युत्तमाङ्गानि शिरांसि येषां तांश्चकार । न त्ववधीदि. त्यर्थः । कुतः ? दृप्तविनयाधिकृतो दुष्टनिग्रहनियुक्तः स राजा परेषां प्रतिकूलानामत्युच्छ्रितमुन्नतं शृङ्गं विषाणं प्राधान्यं च । 'शृङ्ग प्राधान्यसान्वोच' इत्यमरः । न ममृषे न सेहे । दोर्घमायुर्जीवितकालम् । 'आयुर्जीवितकालो ना' इत्यमरः । न ममृषे इति न । किंतु ममृष एवेत्यर्थः ।।६२।।
अन्वयः-नृपतिः निशितैः क्षुरप्रैः खड्गान् प्रायः विषाणपरिमोक्षलघूत्तमा