________________
२५८
रघुवंशमहाकाव्ये
अन्वयः-क्रतुषु विसर्जितमौलिना भुजसमाहृतदिग्वसुना वितमसा तेन तमसासरयूतटाः कनकयूपसमुच्छ्रयशोभिनः कृताः ।
व्याख्या-क्रियन्ते इति क्रतवस्तेषु क्रतुषु यज्ञेषु अश्वमेधेष्वित्यर्थः विसर्जितः-अवरोपितः, त्यक्त इत्यर्थः, मौलिः किरीट: मुकुट: येन स विसर्जितमौलिः तेन विसर्जितमौलिना, भुजाभ्यां बाहुभ्याम् समाहृतम्-पानीतमर्जितं दिशां-काष्ठानां दिगन्तानामित्यर्थः वसु-धनं येन स भुजसमाहृतदिग्वसुस्तेन भुजसमाहृतदिग्वसुना, विगतं-नष्टं तमः तमोगुणः यस्य स तेन वितमसा तेन= दशरथेन, तम इवास्ति जलं यस्याः सा तमसा नदी सरतीति सरयू नदी। तमसा च सरयूश्च तमसासरय्वौ तयोः नद्योस्तटाः तीराणि इति तमसासरयूतटाः, कनकस्य सुवर्णस्य यूपाः-स्तम्भाः इति कनकयूपाः कनकयूपानां, समुच्छ्यः = समुन्नमनमिति कनकयूपसमुच्छ्रयस्तेन शोभन्ते = दीप्यन्ते इति कनकयूपसमुछ्यशोभिनः कृताः विहिताः।
समासः-विसर्जितः मौलिः येन स तेन विसर्जितमौलिना । भुजाभ्यां समाहृतं दिशां वसु येन स तेन भुजसमाहृतदिग्वसुना। तमसा च सरयश्च तौ, तयोस्तटाः, तमसासरयतटाः । कनकस्य यूपाः कनकयपास्तेषां समुछ्यः इति कनकयूपसमुच्छ्रयस्तेन शोभन्ते तच्छीलाः, कनकयूपसमुच्छ्रयशोभिनः । विगतं तमः यस्य सः तेन वितमसा।
हिन्दी-अश्वमेध यज्ञों में ( यज्ञ करते समय ) मुकुट का त्याग करनेवाले, अपनी भुजाओं से चारों दिशाओं का धन ले आने वाले, तमोगुण से शून्य राजा दशरथ ने तमसा और सरयू नदी के किनारों को सुवर्ण के यज्ञस्तंभों से सुशोभित कर दिया था। मुकुट राजा का चिह्न है वह उतारा नहीं जाता किन्तु यज्ञ करते समय राजचिह्न के त्याग का भी विधान है, अतः उतार कर रख दिया था यह तात्पर्य है ।।२०॥
अजिनदण्डभृतं कुशमेखलां यतगिरं मृगशृङ्गपरिग्रहाम् । अधिवसंस्तनु मध्वरदीक्षितामसमभासमभासयदीश्वरः ॥२१॥
संजी०- अजिनेति । ईश्वरो भगवानष्टमूर्तिरजिनं कृष्णाजिनं दण्डमौदुम्बरं बिभर्तीति तमजिनदण्डभृतम् । 'कृष्णाजिनं दीक्षयति । औदुम्बरं दीक्षितदण्ड