________________
२६०
रघुवंशमहाकाव्ये दीप्तिमान कर दिया कि राजा की कान्ति अद्वितीय हो गई। यज्ञ में काले मग के सींग से ही खुजाते हैं ऐसा वेद का आदेश है ॥२१॥
अवभृथप्रयतो नियतेन्द्रियः सुरसमाज समाक्रमणाचितः । नमति स्म स केवलमुन्नतं वनमुचे नमुचेररये शिरः ॥२२॥
संजी०-अवभृथेति । अवभृथेन प्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणो. चितो देवसभाधिष्ठानार्हः स दशरथ उन्नतं शिरो वनमुचे जलवर्षिणे। 'जलं नीरं वनं सत्त्वम्' इति शाश्वतः। नमुचेररये केवलमिन्द्रायैव नमयति स्म । न कस्मैचिदन्यस्मै मानुषायेत्यर्थः ॥२२॥ __अन्वयः-अवभृथप्रयतः नियतेन्द्रियः सुरसमाजसमाक्रमणोचितः सः उन्नतं शिरः वनमुचे नमुचे: अरये केवलं नमयति स्म ।
व्याख्या-अवभ्रियतेऽनेनेति अवभृथः । अवभृथेन = दीक्षान्तकृत्यविशेषेण यज्ञान्तस्नानेनेत्यर्थः प्रयतः पवित्रः, इति अवभृथप्रयतः नियतानि-वशीकृतानि इन्द्रियाणि चक्षुरादीनि येन नियतेन्द्रियः सुरा = समुद्रोत्थास्ति येषां ते सुराः । यद्वा शोभनं राजन्ते इति सुराः सुराणां-देवानां समाजः
= संघस्तस्मिन् यत् समाक्रमणम् समधिष्ठानं गमनमुपवेशनमित्यर्थः इति सुरसमाजसमाक्रमरणं तस्मिन् उचितः योग्यः इति सुरसमाजसमाक्रमरणोचितः सः दशरथः उन्नमति स्म इति उन्नतं-प्रांशु श्रीयते उष्णीषादिना इति शिरः उत्तमांग-मस्तकमित्यर्थः वनं = जलं मुञ्चति-वर्षेति इति वनमुक तस्मै वनमुचे नमूचेः तन्नामकदैत्यस्य अरये-शत्रवे-इन्द्रायेत्यर्थः केवलम् एव नमति स्म-प्रणमति स्म, इन्द्राय एव दशरथः प्राणमत् न तु अन्यस्मै कस्मैचित् मनुष्यायेत्यर्थः ।
समासः---अवभृथेन प्रयतः अवभृथप्रयतः । नियतानि इन्द्रियाणि यस्य स नियतेन्द्रियः। सुराणां समाजः सुरसमाजस्तस्मिन् समाक्रमणं तत्र उचितः इति सुरसमाजसमाक्रमणोचितः ।
हिन्दी-"यज्ञ के अन्त में" अवभृथ स्नान से पवित्र जितेन्द्रिय तथा देवताओं के समाज में बैठने के योग्य राजा दशरथ ने अपना उन्नत मस्तक, जल बरसानेवाले, नमुचिदैत्य के शत्र इन्द्र के लिये ही मुकाया था। अर्थात् राजा दशरथ केवल इन्द्र को नमस्कार करते थे अन्य किसी को नहीं ॥२२॥