________________
२७८
रघुवंशमहाकाव्ये वाली तथा सम्भोग की थकावट को दूर करने वाली अपनी किरणों से मीन की ऊंची ध्वजा वाले तथा पुष्पों के धनुष वाले कामदेव को तेज कर दिया। अर्थात् वसन्त का साथ होने से काम भी खूब प्रबल हो गया ॥३९॥
हुतहुताशनदीनि वनश्रियः प्रतिनिधिः कनकाभरणस्य यत् । युवतयः कुसुमं दधुराहितं तदल के दलकेसम्पेशलम् ।।२०।।
संजी०-हुतेति । हुतहुताशनदीप्त्याऽऽज्यादिप्रज्वलिताग्निप्रभं यत्कुसुमम् । कर्णिकारमित्यर्थः । वनश्रिय उपवनलक्ष्म्याः कनकाभरणस्य प्रतिनिधिः । अभूदिति शेषः । दलेषु केसरेषु च पेशलम् , सुकुमारपत्रकिञ्जल्कमित्यर्थः । माहितम् । प्रिय रिति शेषः । तत्कुसुमं युवतयोऽलके कुन्तले दधुः ॥४०॥
अन्वयः-हुतहुताशनदीप्ति यत् कुसुमम् वनश्रियः कनकाभरणस्य प्रतिनिधिः ( प्रभूत् ) दलकेसरपेशलम् आहितं .( प्रियैरिति शेषः ) सत् कुसुमम् युवतयः अलके दधुः।
व्याख्या-हुतम् प्रश्नातीति हुताशनः । हुतस्य =प्राज्यादिभिः प्रज्वलितस्य हुताशनस्य दीप्तिरिव दीप्तिः-प्रभा यस्य तत् हुतहुताशनदीप्ति यत्-कुसुमम् कर्णिकारमित्यर्थः वनस्य-अरण्यस्य श्री लक्ष्मीरिति-वनश्रीः तस्या वनश्रियः कनति = दीप्यति इति कनकम्, आभ्रियतेऽनेनेति आभरणम् । कनकस्य पाभरणं-भूषणमिति कनकाभरणं तस्य कनकाभरणस्य प्रतिनिधीयते-सदृशीक्रियतेऽनेनेति प्रतिनिधिः-प्रतिमानम् अभूदिति शेषः । दलेषु-पत्रेषु-पल्लवेषु केसरेषु-किञल्केषु च पेशलं-कोमलमिति दलकेसरपेशलम्-सुकोमलपत्रवि अल्कमित्यर्थः आहित=प्रियः दत्तं तत् कुसुमं कर्णिकारपुष्पम् युवन्तीति युवतयः- तरुण्यः अलतीति अलकस्तस्मिन् अलके- कुन्तले दधुः धारयामासुः ।
समासः-हुतश्चासौ हुताशनः इति हुतहुताशनः, हुतहुताशनस्य दीप्तिरिव दीप्तिः यस्य तत् हुतहुताशनदीप्ति। वनस्य श्रीरिति वनश्रीस्तस्याः वनश्रियः । कनकस्य प्राभरणमिति कनकाभरणं तस्य कनकाभरणस्य । दलानि च केसराणि च तेषु दलकेसरेषु पेशलमिति दलकेसरपेशलम्, तत् ।
हिन्दी-"हवन के समय' घी आदि से प्रज्वलित अग्नि के समान चमकते हुए जो कनर के फूल वनकी लक्ष्मी के सोने के आभूषणों के समान हो गये थे,