Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
नवमः सर्गः हरिणी प्रेक्ष्य कामितया स्वयं कामुकत्वात् । कृपामृदुमनाः करुणार्द्रचित्तः सन् । आकर्णकृष्टमपि । दुष्प्रतिसंहरमपीत्यर्थः । बाणं प्रतिसंजहार । नैपुण्यादित्यर्थः । नैपुण्यं तु 'धन्वी' इत्यनेन गम्यते ॥५७॥
अन्वयः-हरिप्रभावः धन्वी सः लक्ष्यीकृतस्य हरिणस्य देहं व्यवधाय स्थितां सहचरी प्रेक्ष्य कामितया कृपामृदुमनाः सन् श्राकर्णकृष्टम् अपि बाणं प्रतिसंजहार ।।
व्याख्या-हरेः इन्द्रस्य विष्णोर्वा इव-यथा प्रभावः सामर्थ्य यस्य स हरिप्रभावः धन्वी धनुरः सः-राजा दशरथः न लक्ष्यः अलक्ष्यः अलक्ष्यः लक्ष्यः संपद्यमानः कृतः लक्ष्यीकृतः तस्य लक्ष्यीकृतस्य वेद्धमिष्टस्य हरिणस्य = मृगस्य स्वप्रियस्य देह-शरीरं व्यवधाय-अन्तर्धाय स्थितां वर्तमानाम् सह चरतीति सहचरी तां सहचरी-हरिणी प्रेक्ष्य अवलोक्य भूयान् कामोऽस्यास्तीति कामी, तस्य भावस्तत्ता कामिता तया कामितया स्वयं कामुकत्वात् , कृपया करुणया मृदु-कोमलं मनः चित्तं यस्य स कृपामृदुमनाः सन् कर्णमभिव्याप्येति
करणम्. आकर्णम् आश्रोत्रं कृष्टं संधानितमिति आकर्णकृष्टम् अपि दुष्प्रतिसंहरमपीत्यर्थः बाणं-शरं प्रतिसंजहार-प्रतिसंहृतवान् , नैपुण्यादित्यर्थः।
समासः-हरेः इव प्रभावो यस्य स हरिप्रभावः । प्राकणं कृष्ट आकर्णकृष्टः, तम् । कृपया मृदु मनः यस्य सः कृपामृदुमनाः।
हिन्दी-इन्द्र अथवा विष्ण के समान शक्तिशाली धनुर्धर राजा दशरथ ने अपने मारने के लिये लक्ष्य बनाये गये मृग के शरीर को भाड़ में करके खड़ी हुई, उस मृग की प्रिया मृगी को देखकर, स्वयं भी प्रेमी होने के कारण, दया से आर्द्र मन होकर, ( कृपा से भरकर ) कान तक खींचे हुए भी अपने बाण को उतार लिया । अर्थात् प्रेमिका के द्वारा प्रेमी की रक्षा करना देखकर स्वतः प्रेमी होने से राजा ने उस मृग के मारने का विचार छोड़ दिया ॥५७॥
तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः
कर्णान्तमेत्य बिभिदे निबिडोऽपि मुष्टिः । त्रासातिमात्रच टुलैः स्मरतः सुनेत्रैः
प्रौढप्रियानयनविभ्रमचेष्टितानि ॥५८॥