________________
नवमः सर्गः
२८१ सनाथया । किसलयमेव अधरस्तत्र संगता, तया किसलयाधरसंगतया। कुसुमैः संभृता तया कुसुमसंभृतया।
हिन्दी-वृक्ष की सुन्दरी नायिका नव मल्लिका लता ने, मकरन्द की गन्ध से पूर्ण ( भरी ) तथा लाल २ पल्लव रूपी अोठों पर फैली हुई फलों से बनाई गई ( पुष्परूपी) मुस्कान की कान्ति से देखनेवालों के मन को मतवाला बना दिया। यहाँ पर तरु से पुरुष तथा मल्लिका से कोई नायिका भी प्रतीत हो रही है । अतः सुन्दरी स्त्री ने, मद्य की गन्धयुक्त अपने लाल-लाल अधर पर फैली हुई पुष्प के समान अपनी मुस्कान से देखने वाले के मन को पागल बना दिया। यह अर्थ भी निकलता है ॥४२॥
अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङकुरैः। परभृताविरुतश्च विलासिनः स्मरबलैरबल करसाः कृताः ।।४३॥
संजी०-अरुणेति । विलासिनो विलसनशीलाः पुरुषाः। 'वौ कषलस-' (पा. ३।२।१४३ ) इत्यादिना घिनुष्प्रत्ययः । अरुणस्यानूरो रागमारुण्यं निषेघन्ति तिरस्कुर्वन्तीत्यरुणरागनिषेधिनः । तैः। कुसुम्भादिरञ्जनात्तत्सदृशैरित्यर्थः । 'तमन्वेत्यनुबध्नाति तच्छीलं तनिषेधति । तस्येवानुकरोतीति शब्दाः सादृश्यवाचकाः ॥' इति दण्डी। अंशुकैरम्बरैः। श्रवणेषु कर्णेषु लब्धपदैः । निवेशितैरित्यर्थः । यवाङकुरैश्च परभृताविरुतः कोकिलाकूजितैश्च । इत्येतैः स्मरबलैः । कामसैन्यः । अबलास्वेक एव रसो रागो येषां तेऽबलैकरसाः स्त्रीपरतन्त्राः कृताः ॥४३॥
अन्वय:-विलासिनः “पुरुषाः" अरुणरागनिषेधिभिः अंशुकैः श्रवणलब्धपदैः यवाङ्कुरैश्च परभृतारुतैः च स्मरबलैः अबलैकरसाः कृताः।
व्याख्या-विलसितुं शीलं येषां ते विलासिनः । विलासोऽस्ति येषां ते विलासिनः- भोगिनः विलसनशीलाः पुरुषाः इत्यर्थः, अरुणः वर्णः अस्यास्तीति अरुणः । अरुणस्य-गरुडाग्रजस्यः सूर्यसारथेरित्यर्थः रागम् वर्ग = प्रारुण्यं निषेधन्तिः-- तिरस्कुर्वन्ति, इति' अरुणरागनिषेधिनः, तैः अरुणरागनिषेधिभिः । अंशुभिः काशन्ते अंशुकानि तैः अंशुकः-अम्बरैः-वस्त्रः, श्रूयते यैस्तानि श्रवणानि । श्रवणेषुकर्णेषु लब्धानि प्राप्तानि पदानि-स्थानानि यस्तैः श्रवणलब्धपदैः श्रवणार्पितैरि