________________
२८३
नवमः सर्गः शब्दं करोति, कण्ठने, इति वा कण्ठः । विपुलः विशालः कण्ठः गलः, विपुलकण्ठः । विपुलकण्ठे निषक्तं संलग्नं स्थापितमित्यर्थः शरासनं धनुर्येन स विपुलकण्ठनिषक्तशरासनः । ना-पुरुषः सविता-सूर्य इवेति नृसविता सः राजा दशरथः अश्वानां= तुरंगमाणां खुराः शफानि तैः उद्धृताः उत्थिताः रेणवः धूलयस्तैः अश्वखुरो. द्धतरेणुभिः, गच्छन्त्यस्मिन्निति गगनम्=आकाशं वितानं तुच्छम् असदित्यर्थः इव-यथा अकरोत् कृतवान् । अथवा सवितानमिति समस्तं पदम् तथा च वितानेन उल्लोचेन सहितं सवितानम्-उल्लोचसहितमिवाकरोत् । 'वितानं तुच्छमन्दयोरिति विश्वकोषात् । 'अस्त्री वितानमुल्लोचः' इत्यमराच ।
समासः-मृगाणां वनं मृगवनं तस्य उपगमः इति मृगवनोपगमस्तस्य क्षम वेषं बिभर्तीति मृगवनोपगमक्षमवेषभृत् । विपुले कण्ठे निषक्तं शरासनं येन स विपुलकण्ठनिषक्तशरासनः । ना सविता इव इति नृसविता। अश्वानां खुरैः उद्धताः रेणवस्तैः अश्वखुरोद्धतरेणुभिः ।
हिन्दी-शिकार को जाते समय मृगों के वन में जाने योग्य वेषभूषा को धारण किये हुए, और अपने विशाल कन्धे पर धनुष को रखे हुए, मनुष्यों में सूर्य के समान राजा दशरथ ने, अपने घोड़ों के खुरों से उठी धूली से आकाश को तुच्छ-नहीं के समान बना दिया। उस समय गगन में धूली भर जाने से आकाश दीख नहीं पड़ रहा था। अथवा आकाश में धूली से शामयाना ( तम्बू) सा बना दिया ॥५०॥
प्रथितमौलिरसौ वनमालया तरुपलाशसवर्णतनुच्छदः। तुरगवल्गनचञ्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु ॥५१॥
संजी०-प्रथितेति । वनमालया वनपुष्पसजा ग्रथितमौलिर्बद्धधम्मिल्लः । तरूणां पलाशैः पत्रैः सवर्णः समानस्तनुच्छदो वर्म यस्य स तथोक्तः । इदं च वर्मणः पलाशसावाभिधानं मृगादीनां विश्वासार्थम् । तुरगस्य वल्गनेन गतिविशेषेण चञ्चलकुण्डलोऽसौ दशरथो रुरुभिगविशेषैश्चेष्टिताश्चरिता या भूमयस्तासु विररुचे विदियुते ॥५१॥
अन्वयः-वनमालया ग्रथितमौलिः तरुपलाशसवर्णतनुच्छदः तुरगवल्गनचञ्चलकुण्डलः असौ रुरुचेष्टितभूमिषु विरुरुचे ।