________________
२१
नवमः सर्गः ईक्षणानां नेत्राणां वृत्तयः, यासां ताः, दीव्यन्तीति दे वाः, देवा एव देवताः। वनस्य =अरण्यस्य देवताः सुराः अधिष्ठातृदेवता इत्यर्थः, इति वनदेवताः नयेन-नीत्या नीतिमार्गेणेत्यर्थः नन्दिताः=तोषिताः पालिताः कोसलाः तन्नामकजनपदाः येन स तं नयनन्दितकोसलम्, सुन्दरे नयने नेत्रे यस्य स तं सुनयनं तं = राजानं दशरथम् अध्वनि = मार्गे ददृशुः दृष्टवत्यः । प्रसन्नतया पवित्रतया च राजानं देवता अपि लतारूपशरीरेण भ्रमरेक्षणेन गूढवृत्त्या दृष्टवत्य इत्यर्थः । ___ समासः-तन्व्यश्च ताः लताः तनुलताः, तनुलतासु विनिवेशिताः विग्रहाः याभिस्ताः तनुलताविनिवेशितविग्रहाः । भ्रमरेषु संक्रमिताः ईक्षणानां वृत्तयः यासां ताः भ्रमरसंक्रमितेक्षणवृत्तयः । वनस्य देवता: वनदेवताः । नयेन नन्दिताः कोसलाः येन स नयनन्दितकोसलस्तं नयनन्दितकोसलम् । सुष्ठु नयने यस्य स तं सुनयनम् ।
हिन्दी- कोमल सूक्ष्मलताओं में अपने शरीर को रखनेवाले तथा भौरों में नेत्र के व्यापार को संक्रमित करनेवाले, (अर्थात् लतारूपी शरीरवाले और भौरों के नेत्र से देखने वाले ), वन के देवताओं ने सुन्दर नेत्र वाले और नीति धर्म से प्रजा को आनन्दित या समृद्धिशाली बनाने वाले राजा दशरथ को मार्ग चलते हुए देखा । अर्थात् अच्छे राजा को वन देवताओं ने भी छिपकर देखा ॥५२॥
श्वगणिवागुरिकैः प्रथमास्थितं व्यपगतानलदस्यु विवेश सः । स्थिरतुरंगमभूमि निपानवन्मृगवयोगवयोपचितं वनम् ।।५३॥
संजी०-श्वगरणीति । स दशरथः । शुनां गणः स एषामस्तीति श्वगणिनः श्वग्राहिणः । 'तैः । वागुरा मृगबन्धनरज्जुः । 'वागुरा मृगबन्धनी' इत्यमरः । तया चरन्तीति वागुरिका जालिकाः । 'चरति' (पा. ४।४।८ ) इति ठक्प्रत्ययः । 'द्वौ वागरिकजालिकौ' इत्यमरः । तैश्च प्रथममास्थितमधिष्ठितम् । व्यपगता अनला दावाग्नयो दस्यवस्तस्कराश्च यस्मात्तथोक्तम् । 'दस्युतस्करमोषकाः' इत्यमरः । 'कारयेद्वनविशोधनमादौ मातुरन्तिकमपि प्रविविक्षुः । आप्तशस्त्र्यनुगतः प्रविशेद्वा संकटे च गहने च न तिष्ठत् ।।' इति कामन्दकः । स्थिरा दृढा पङ्कादिरहिता तुरंगमयोग्या भूमिर्यस्य तत् । निपानवदाहावयुक्तम् । 'पाहावस्तु निपानं स्यादुप