________________
नवमः सर्गः
अन्वयः-अभिनयान् परिचेतुम् उद्यता इव स्थिता मलयमारुतकम्पितपल्लवा सकलिका सहकारलता कलिकामजिताम् अपि मनः श्रमदयत् ।
व्य ख्या-अभिनयन्ति-व्यञ्जयन्ति अर्थानिति अभिनयास्तान् अभिनयान्= अर्थव्यंजकव्यापारान् परिचेतुम् अभ्यसितुम् उद्यता सन्नद्धा इव यथा स्थिता, - मलयस्य म्रियन्तेऽनेन वृद्धेन विना वा मरुत् , मरुत् एव मारुतः। मलयाचलस्य मारुतः पवनस्तेन कम्पितानि-चलितानि पल्लवानि=किसलयानि यस्याः सा मलयमारुतकम्पितपल्लवा, कलिकया कुड्मलेन सह वर्तते सा सकलिका-सकोरका सह कारयतिमेलयति द्वन्द्वमिति सहकारः। सहकारस्य-अतिसौरभरसालस्य लता= वल्ली इति सहकारलता की, कलि =द्वेषं काम-रागञ्च जयन्ति ते कलिकामजितस्तेषां कलिकामजिताम् अपिः = समुच्चये मन्यतेऽनेनेति तत् मनः चित्तम् अमदयत्-मदयति स्म।
समासः-मलयस्य मारुतः मलयमारुतस्तेन कम्पितानि पल्लवानि यस्याः सा मलयमारुतकम्पितपल्लवा । सहकारस्य लता सहकारलता। कलिश्च कामश्व तयोर्जितस्तेषां कलिकामजिताम् ।
हिन्दी-मानों अभिनय का अभ्यास करने के लिये तैयार खड़ी हुई, अतएव मलय के वायु से जिसके पत्ते झूम रहे हैं ऐसी बौर से भरी आम के वृक्षों की लता ( डाली) ने राग द्वेष को जीतने वालों ( योगियों) के भी मन को मोह लिया अर्थात् जैसे नर्तकी अपने नृत्य से दर्शकों को मुग्ध कर लेती है उसी प्रकार हिलती हुई एवं मंजरी से लदी आम की डालियों ने योगियों के मन को भी मदयुक्त कर दिया ॥३३॥
प्रथममन्यभृताभिरुदीरिताः प्रविरला इव मुग्धवधूकथाः । सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु ॥३४।।
संजी०–प्रथममिति । सुरभिगन्धो यासां तासु सुरभिगन्धिषु । 'गन्धस्य-' (पा. ५।४।१३५ ) इत्यादिनेकारः । कुसुमान्यासां संजातानि कुसुमिताः। तासु वनराजिषु वनपक्तिषु । अन्यभृताभिः कोकिलाभिः प्रथमं प्रारम्भेषदीरिता उक्ता अत एव मिताः परिमिता गिर पालापाः प्रविरला मौग्ध्यात्स्तोकोक्ता मुग्धवधूनां कथा वाच इव । शुश्रुविरे श्रुताः ॥३४॥