________________
१४४
रघुवंशमहाकाव्ये हिन्दी---हे विदर्भराजपुत्री, इस समय छोटे २ बच्चे भी जिनके शस्त्रों को छीन सकते हैं ऐसे शत्रओं को देखो, मैंने तुम्हें देखने की अनुमति दे दी है। ये राजा, इसी बल पर ( निद्रारूप ) युद्ध करके मेरे हाथ से तुमको छीनना चाहते हैं। ( अज नेत्र व हाथ के इशारे से सोये पड़े राजाओं को दिखाकर परिहासपूर्वक कह रहा है यही 'एवं विधेन' का भाव है ) ॥६७॥
तस्याः प्रतिद्वन्द्विभवाद्विषादात्सद्यो विमुक्तं मुखमाबभासे। निःपवासबाष्पापगमात्प्रसन्नः प्रमादमात्मीय मिवात्मदर्शः ॥६८।।
संजी०-तस्या इति । प्रतिद्वन्द्विभवाद्रिपूत्थाद्विषादादैन्यात् सद्योः विमुक्तं तस्या मुखम् । नि:श्वासस्य यो बाष्प ऊष्मा । 'बाष्पो नेत्रजलोष्मणोः' इति विश्वः। तस्यापगमा तोरात्मीयं प्रसादं नैर्मल्यं प्रपन्नः प्राप्तः । आत्मा स्वरूपं दृश्यतेऽनेनेत्यात्मदर्शो दर्पण इव । आबभासे ॥६८।।
अन्वयः-प्रतिद्वन्द्विभवात विषादात् सद्यः विमक्तं तस्याः मखम नि:श्वासबाध्यापगमात् आत्मीयं प्रसादं प्रपन्नः आत्मदर्श इव आबभासे।
व्याख्या-द्वन्द्वं प्रति, प्रतिद्वन्द्वं प्रतिद्वन्द्वमस्ति येषान्ते प्रतिद्वन्द्विनस्तेभ्यो भवतीति प्रतिद्वन्द्विभवस्तस्मात् प्रतिद्वन्द्विभवात् = शत्रुजन्यात् विषीदन्ति जना अनेन स विषादः = दैन्यं तस्मात् विषादात् सद्यः = सपदि विमुक्तं त्यक्तं = रहितमित्यर्थः तस्याः = इन्दुमत्या मुखम् = आननम् (अवदारणार्थखनधातोः डित खनेर्मूट् चेति सूत्रेण अच्प्रत्ययो मुडागमश्चेति)। निःश्वासस्य= श्वासप्रश्वासस्य बाष्पः = ऊष्मा, इति निःश्वासबाष्पस्तस्य अपगमः = नाशस्तस्मात् निःश्वासबाष्पापगमात् कारणात् आत्मनः अयमात्मीयस्तमात्मीयं स्वकीयं प्रसादं = प्रसन्नतां नैर्मल्यमित्यर्थः प्रपन्नःप्राप्तः आत्मा = स्वरूपं दृश्यतेऽत्रेति स आत्मदर्शः = दर्पणः = मुकुरः इव यथा आबभासे दिदीपे।
समास:--प्रतिद्वन्द्विभ्यो भवतीति प्रतिद्वन्द्विभवस्तस्मात् प्रतिद्वन्द्विभवात् । निःश्वासस्य बाष्पः निःश्वासबाष्पस्तस्यापगमस्तस्मात् निःश्वासबाष्पापगमात् । आत्मा दृश्यतेऽत्र स आत्मदर्शः ।
हिन्दी--शत्रुओं के भय से उत्पन्न दीनता से रहित इन्दुमती का मुख उस शीशे की तरह चमक उठा (सुन्दर लगने लगा) जो कि सांस की भांप के पोंछने से स्वच्छ साफ हो गया है ॥६८॥