Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
अष्टमः सर्गः उस प्रकार नम्र कर दिया, जैसे कि मध्यम वेग से बहने वाला वायु वृक्षों को उखाड़े बिना मुका देता है ॥९॥
अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमात्मवत्तया । विषयेषु विनाशधर्मसु त्रिदिवस्थेष्वपि निःस्पृहोऽभवत् ॥१०॥
संजी०–अथेति । अथ रघुरात्मजं पुत्रमात्मवत्तया निर्विकारमनस्कतयेत्यर्थः । । 'उदयादिष्वविकृतिर्मनसः सत्त्वमुच्यते । आत्मवान्सत्त्ववानुक्तः' इत्युत्पलमालायाम् । प्रकृतिष्वमात्यादिषु प्रतिष्ठितं रूढमूलं वीक्ष्य ज्ञात्वा विनाशो धर्मो येषां तेषु विनाशधर्मसु । अनित्येष्वित्यर्थः । 'धर्मादनिच्केवलात्' (पा. ५।४।१२४ ) इत्यनिच्प्रत्ययः समासान्तः । त्रिदिवस्थेष्वपि विषयेषु शब्दादिषु निःस्पृहो निर्गतेच्छोऽभवत् ॥१०॥
अन्वयः-अथ रघुः आत्मजम् आत्मवत्तया प्रकृतिषु प्रतिष्ठितं वीक्ष्य, बिना. शधर्मसु त्रिदिवस्थेषु अपि विषयेषु निःस्पृहः अभवत् ।
व्याख्या-अथ = अनन्तरम् रघुः राजा आत्मनः-स्वस्मात् जातः-उत्पन्नस्तमात्मजम्=पुत्रमित्यर्थः आत्मास्यास्ति इति प्रात्मवान्-सत्त्ववान् आत्मवतो भावः आत्मवत्ता तया आत्मवत्तया विकारहीनचित्ततया इत्यर्थः, प्रकृतिषु-अमात्यादिषु प्रतिष्ठितं-प्ररूढमूलतया स्थितम् वीक्ष्य-अवलोक्य = ज्ञात्वेत्यर्थः धरति ध्रियते वा धर्मः विनाशः अनित्यः धर्मः- स्वभावो येषान्ते विनाशधर्माणस्तेषु विनाशधर्मसु नाशवत्सु, इत्यर्थः तिसृष्वपि अवस्थासु दीव्यन्ति-क्रीडन्ति यत्र स त्रिदिवस्तस्मिन् तिष्ठन्ति ते त्रिदिवस्थास्तेषु त्रिदिवस्थेषु अपि विषयेषु-भोग्येषु शब्दादिषु निर्गता स्पृहा यस्य स निस्पृहः-निरीहः अभवत्-जातः । __ समासः-विनाशः धर्मः येषान्ते विनाशधर्माणस्तेषु विनाशधर्मसु । त्रिदिवे तिष्ठन्तीति त्रिदिवस्थास्तेषु त्रिदिवस्थेषु । विसिन्वन्ति-निबध्नन्ति इन्द्रियाणीति विषयास्तेषु विषयेषु।
हिन्दी-इसके पश्चात् महाराज रघु यह जान कर कि मेरा पुत्र अज विकारहीन भाव से, मंत्री प्रजाओं में स्थिर (बद्धमूल) हो गया है अतः नाश को प्राप्त होने वाले स्वर्गीय भोगों में भी निस्पृह हो गया। अर्थात् सब सुखों के भोगों को त्याग दिया ॥१०॥