________________
१५६
रघुवंशमहाकाव्ये हिन्दी-'अज के राज्य में' सब लोग यही विचारते थे कि सारी प्रजा में एक मैं ही महाराज अज से सम्मानित हूं। अर्थात् वे सबसे अधिक मुझे मानते हैं। 'क्योंकि' हजारों नदियों में एक सा व्यवहार करने वाले समुद्र की तरह अज का किसी भी जन के प्रति तिरस्कार का व्यवहार नहीं होता था ॥८॥
न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव । स पुरस्कृतमध्यमक्रमो नमयामास नृपाननुद्धरन् ।।६।।
संजी०-नेति । स नृपो भूयसा बाहुल्येन खरस्तीक्ष्णो न । भूयसा मृदुरतिमृदुरपि न । किंतु पुरस्कृतमध्यमक्रमः सन्, मध्यमपरिपाटीमवलम्ब्येत्यर्थः । पवमानो वायुः पृथिवीरुहांस्तरूनिव नृपाननुद्धरन्ननुत्पाटयन्नेव नमयामास । अत्र कामन्दक:'मृदुश्चेदवमन्येत तीक्ष्णादुद्विजते जनः । तीक्ष्णश्चैव मृदुश्चैव प्रजानां स च संमतः ॥' इति ॥९॥
अन्वयः-सः भूयसा खरः न, भूयसा मृदुः 'अपि' न किन्तु पुरस्कृतमध्यमक्रमः सन् पवमानः महीरुहान् इव नृपान् अनुद्धरन् नमयामास ।
व्याख्या-सः=नृपोऽजः अतिशयेन बहु भवतीति भूयस्तेन भूयसा बाहुल्येन खमिन्द्रियं राति-अभिभवतीति खरः तीक्ष्णः न नहि भूयसा मृद्यते इति मृदुः कोमलः न किन्तु पुरस्कृतः स्वीकृतः-अवलम्बितः मध्यमः = मध्ये भवः क्रमः-परिपाटी येन स पुरस्कृतमध्यमक्रमः सन् पवतेऽसौ पवमानः = वायुः, प्रथते इति पृथिवी भूमिस्तस्यां रोहन्तीति पृथिवीरुहास्तान् पृथिवीरुहान् = वृक्षान् इव-यथा नृपान् = भूपालान् उद्धरति उत्पाटयतीति उद्धरन् न उद्धरन् अनुद्धरन्-अनुत्पाटयन् एव नमयामास = विनम्रान् कृतवान् ।
ममासः-मध्ये भवः मध्यमः मध्यमश्चासौ क्रमः मध्यमक्रमः पुरस्कृतः मध्यमक्रमो येन स पुरस्कृतमध्यमक्रमः । मह्यां रोहन्तीति महीरुहास्तान् महीरुहान् । न उद्धरन् अनुद्धरन् ।
हिन्दी-राजा अज न तो अधिक कठोर थे और बहुत कोमल ही थे, किन्तु बीच के मार्ग को स्वीकार कर अपने शत्रु राजाओं को गद्दी से उतारे बिना ही