Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
अष्टमः सर्गः
२३१
अन्वय:-हे वशिनाम् उत्तम ! स्वम् पृथग जनवत् शुचः वशं गन्तुं न अर्हसि 'तथाहि' द्रमसानुमतां किम् अन्तरं यदि वायौ सति द्वितये अपि ते चलाः 'स्युरिति शेषः ।'
व्याख्या-उत्ताम्यतीति उत्तमः, तस्य संबुद्धौ उत्तम ! वशिनां जितेन्द्रियाणाम् उत्तम सर्वश्रेष्ठ ! त्वं सजनेभ्यः पृथग्भूतो जनः पृथग्जनः पृथग्जनेन तुल्यं पृथगजनवत्=पामरवत् शुचः-शोकस्य वशम्- अधीनतां गन्तुं यातुं न अर्हसिन योग्योऽसि । तथाहि द्रवति ऊधंमिति द्रुः । द्रुः-शाखा एषामस्तीति द्रुमाः वृक्षाः समुदाये प्रवृत्ताः शब्दाः अवयवेष्वपि वर्तन्ते इति न्यायात् द्रुः शाखा । सानूनि सन्ति एषामिति सानुमन्तः पर्वताः । द्रुमाश्च सानुमन्तश्चेति द्रुमसानुमन्तस्तेषां द्रुमसानुमतां किमन्तरं-को भेदः यदि चेत् वातीति वायुस्तस्मिन् वायौ-पवने सति द्वितये द्विप्रकाराः अपि ते तरुशिखरिणः वृक्षपर्वताः इत्यर्थः। चलाः चञ्चलाः स्युः । वृक्षाः इव यदि पर्वता अपि चञ्चलाः स्युः तदा पर्वतानामपि अचलसंज्ञा न स्यादित्यर्थः।
समासः-पृथक कार्यः जनः पृथग्जनः पृथग्जनेन तुल्यमिति पृथग्जनवत् । द्रुमाश्च सानुमन्तश्चेति द्रुमसानुमन्तस्तेषां द्रुमसानुमताम् ।
हिन्दी-हे जितेन्द्रियों में सर्वश्रेष्ठ अज ! साधारण मनुष्य के समान तुम शोक के अधीन होने के योग्य नहीं हो, क्योंकि वायु के चलने पर यदि वे दोनों वृक्ष और पर्वत भी हिलने लगे तो फिर वृक्ष और पर्वत में भेद ही क्या रहेगा। अर्थात् तुम पर्वत के समान धीर हो, तुम्हें शोक न करना चाहिये ॥१०॥
स तथेति विनेतुरुदारमतेः प्रतिगृह्य वचो विससज मुनिम् । तदलब्धपदं हृदि शोकघने प्रतियातमिवान्तिकमस्य गुरोः ॥११॥
संजी०–स इति । सोऽज उदारमतेर्विनेतुगुरोर्वसिष्ठस्य वचस्तच्छिष्यमुखेरितं तथेति प्रतिगृह्याङ्गीकृत्य मुनि वसिष्ठशिष्यं विससर्ज प्रेषयामास । किंतु तद्वचः शोकघने दुःखसान्द्रऽस्याजस्य हृद्यलब्धपदमप्राप्तावकाशं सद्गुरोर्वसिष्ठस्यान्तिकं प्रतियातमिव प्रतिनिवृत्तं किमु-इत्युत्प्रेक्षा। तोटकवृत्तमेतत्-इह तोटकमम्बुधिसः प्रथितम्' इति तल्लक्षणात् ॥११॥