________________
२४४
रघुवंशमहाकाव्ये वा वरुणः प्रचेताः। वरुणेन सहितौ सवरुणौ-वरुणसहितौ यमयति जनान् इति यमः पुण्याश्च ते जनाः पुण्यजनाः। पुण्यजनानाम् ईश्वरः पुण्यजनेश्वरः । यमः= धर्मराजश्च पुण्यजनेश्वरः कुबेरश्चेति यमपुण्यजनेश्वरौ अनुययौ-अनुचकार । रोचते इति रुक् तया रुचा-कान्त्या-तेजसा अरुणः-अनूरु ः अग्रसरः सारथिः यस्य स तम् अरुणाग्रसरं-सूर्यम् च अनुययौ ।
समासः-वसोः वृष्टिरिति वसुवृष्टिस्तस्याः विसर्जनानि तैः वसुवृष्टिविसर्जनः । नराणामधिपः नराधिपः । न सन्तः असन्तस्तेषाम् असताम् । पुण्यजनानामीश्वरः पुण्यजनेश्वरः यमश्च पुण्यजनेश्वरश्चेति यमपुण्यजनेश्वरौ तौ। वरुणेन सहितौ सवरुणौ तौ । अरुणः अग्रसरो यस्य स तम् अरुणाग्रसरम् ।
हिन्दी-राजा दशरथ ने समानव्यवहार से यमराज का, और धन की वर्षा से ( धन देकर.) कुबेर का, तथा दुष्टों का दमन करने से वरुण का अनुकरण किया और तेज से सूर्य का अनुकरण किया। अर्थात् राजा प्रजापालन में यम के समान समदर्शी, धन देने में कुबेर के, दण्ड देने में वरुण के समान थे, और तेजस्विता में सूर्य के समान थे ॥६॥
तस्य व्यसनासक्ति सीदित्याहन मृगयाभिरतिर्न दुरोदरं न च शशिप्रतिमाभरणं मधु । तमुदयाय न वा नवयौवना प्रियतमा यतमानमपाहरत् ।। ७ ।।
संजी-नेति-उदयाय यतमानमभ्युदयाथं व्यप्रियमाणं तं दशरथं मृगयाभिरतिराखेटव्यसनं नापाहरन्नाचकर्षं । 'आक्षोटनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम्' इत्यमरः । दुष्टमासमन्तादुदरमस्येति दुरोदरं द्यूतं च नापाहरत् । 'दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्' इत्यमरः । शशिनः प्रतिमा प्रतिबिम्बमाभरणं यस्य तन्मधु नापाहरत् । न वेति पदच्छेदः । 'वा'शब्दः समुच्चये। नवयोवना नवं नूतनं यौवनं तारुण्यं यस्यास्तादृशी प्रियतमा वा स्त्री नापाहरत् । जातावेकवचनम् । अत्र मनुः ( ७।५० ) 'पानमक्षाः स्त्रियश्चेति मृगया च यथाक्रमम् । एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे ॥' इति ॥७॥
अन्वयः-उदयाय यतमानम् तम् मृगयाभिरतिः न अपाहरत, दुरोदरं