Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
अष्ठमः सर्गः
मन्यते । प्रियनाशे सतोति शेषः । कुतः ? कुशलद्वारतया । प्रियनाशस्य मोक्षोपायतयेत्यर्थः । विषयलाभविनाशयोर्यथाक्रमं हिताहितसाधनत्वाभिमानः पामराणाम् । विपरीतं तु विपश्चितामिति भावः ॥८॥
अन्वयः-मूढचेतनः प्रियनाशं हृदि अर्पितं शल्यम् अवगच्छति, तु स्थिरधीः तदेव कुशलद्वारतया समृद्धृतं मन्यते ।
व्याख्या-मूढा-भ्रान्ता चेतना-बुद्धिर्यस्य स मूढचेतनः प्रियस्य- इष्टजनस्य नाशः विनाशः मरणमित्यर्थः इति प्रियनाशस्तं प्रियनाशं हृदि-हृदये अर्पितं निखातं शलतीति शल्यं तत् शल्यं शंकुम् अवगच्छति-जानाति । तु-किन्तु स्थिरा-दृढा धी:-बुद्धिः यस्य स स्थिरधीः = पण्डितः तदेव-शल्यं कुत्सितं शलते-संवृणोतीति कुशलं शिवं कल्याणं तस्य द्वारं कुशलद्वारं तस्य भावस्तत्ता तया कुशलद्वारतया= मोक्षोपायतया सम्यक उद्धृतमिति ममुद्धृतम् उत्खातं मन्यते । पामरजनाः प्रियनाशम् अहितकरं विषयलाभं च हितकरं मन्यन्ते पण्डितास्तु तदेव विपरीतं मन्यन्ते इति भावः।
समासः-मूढा चेतना यस्य स मूढचेतनः । प्रियस्य नाशस्तं प्रियनाशम् । स्थिरा धीः यस्य स स्थिरधीः कुशलस्य द्वारं कुशलद्वारं तस्य भावस्तत्ता तया कुशलद्वारतया। _ हिन्दी-भ्रान्तबुद्धिवाले मूर्ख, अपने प्रिय जन की मृत्यु को हृदय में गड़ी हुई कील समझते हैं, किन्तु विद्वान्, उसी प्रिय जन को मृत्यु को मोक्ष का उपाय ( वैराग्य का कारण ) होने के कारण हृदय से निकाल दिया मानते हैं अर्थात् प्रियनाश से मूों को छाती में गड़ी कील के जैसा दुःख होता है और ज्ञानी को उसी से कील निकालने के जैसा आराम मिलता है, क्योंकि इससे संसार का मोह छूटता है ॥८॥
स्वशरीपशरीरिणावपि तसंयोगविपर्ययौ यदा । विरहः किमिवानुतापयेद्वद बायैर्विषयर्विपश्चितम् ।।८।।
संजी०-स्वेति । स्वस्य शरीरशरीरिणौ देहात्मानावपि यदा यतः श्रुतौ श्रुत्यवगतौ संयोगविपर्ययौ संयोगवियोगौ ययोस्तौ तथोक्तौ। तदा बाह्यविषयः