________________
अष्टमः सर्गः
२२७.
हिन्दी- रोते हुए भी तुम इन्दुमती को कहाँ से पाओगे । नहीं ही पाओगे। और उसके पीछे मरने पर भी तुम अब नहीं पा सकते हो। इसलिये किपरलोक में जाकर रहने वाले, प्राणियों के गन्तव्य स्थान भिन्न भिन्न मार्ग वाले होते हैं । अर्थात् अपने अपने कर्म के अनुसार उसका फल भोगने के लिए भिन्न भिन्न स्थान हैं । अतः मरकर भी उसे कैसे पा सकोगे ॥८५॥
अपशोकमनाः कुटुम्बिनीमनुगृहणीष्व निवापदत्तिभिः । स्वजनाथ किलातिसंततं दहति प्रेतमिति प्रचक्षते ॥८६॥
संजी०-अपेति । किंतु, अपशोकमना निदु:खचित्तः सन् कुटुम्बिनी पत्नी निवापदत्तिभिः पिण्डोदकादिदानैरनुगृह्णीष्व तर्पयेत्यर्थः । अन्यथा दोषमाहअतिसंततमविच्छिन्नं स्वजनानां बन्धूनाम् । 'बन्धुस्वस्वजनाः समाः' इत्यमरः । अश्रु कर्तृ प्रेतं मृतं दहतीति प्रचक्षते मन्वादयः किल । अत्र याज्ञवल्क्यः ( याज्ञ. प्राय. ।१११ )- 'श्लेष्माश्रु बन्धुभिमुंक्तं प्रतो भुङक्ते यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥' इति ॥८६॥
अन्वयः-'किन्तु' अपशोकमनाः सन् कुटुम्बिनीम् निवापदत्तिभिः अनुगृह्णीष्व, अतिसंततं स्वजनाश्र प्रेतं दहति इति प्रचक्षते किल ।।
व्याख्या - अपगतः शोकः यस्य तत् अपशोकं दुःखरहितं मनः-चित्तं यस्य सः, अपशोकमनाः सन् कुटुम्ब्यते पाल्यते, संबध्यते वा सः कुटुम्बः । कुटुम्बः= पोष्यवर्गः अस्याः अस्तीति कुटुम्बिनी तां कुटुम्बिनी = पत्नी न्युप्यते निवपनं वा निवापः निवापस्य-पिण्डोदकादेः दत्तयः दानानि ताभिः निवापदत्तिभिः अनुगृह्णीष्व= तर्पय, श्राद्धादिना तां तर्पयेत्यर्थः । अतिसंततं-निरन्तरं स्वजनानां बान्धवानाम् अश्रु -नेत्रजलं रोदनमिति स्वजनाश्रु “कर्तृपदमिदम्" प्रकर्षेण इतः गतःप्रेतस्तं प्रेतं= मृतं दहति सन्तपति, इति प्रचक्षते-कथयन्ति मन्वादयो धर्मशास्त्रकारा इति शेषः ।
समासः-अपगतः शोकः यस्य तत् अपशोकम्, अपशोकं मनः यस्य सः, अपशोकमनाः। निवापस्य दत्तयस्ताभिः निवापदत्तिभिः । स्वे च ते जनाः स्वजनाः स्वजनानाम् अश्रु इति स्वजनाश्रु ।
हिन्दी-'किन्तु' तुम शोकरहित मनवाले होकर ( मन से दुःख दूर कर ) अपनी पत्नी को पिण्डदान त गादि से तृप्त करो । 'ऐसा न करने पर' निरन्तर