________________
२३०
रघुवंशमहाकाव्ये
पुत्रमित्रकलत्रादिभिर्विरहो विपश्चितं विद्वांसं किमिवानुतापयेत्त्वं वद । न किंचि. दित्यर्थः । अथवा-'स्व'शब्दस्य शरीरेणैव संबन्धः ।।८९॥
अन्वयः-स्वशरीरशरीरिणौ अपि यदा श्रुतसंयोगविपर्ययौ तदा बाह्यः विषयः विरहः विपश्चितं किमिव अनुतापयेत्, त्वं वद ।
व्याख्या-शृणाति शीर्यते वा शरीरं स्वस्य=निजस्य शरीरं देहः स्वशरीरं, शरीरमस्यास्तीति शरीरी आत्मा, स्वशरीरं शरीरी चेति स्वशरीरशरीरिणौ यदायतः विपर्यसनं विपर्ययः । संयोगः सम्बन्धः विपर्ययः-वियोगः, इति संयोगविपर्ययो, श्रुतौ आकर्णितौ ( श्रुत्यावगतौ इत्यर्थः) संयोगविपर्ययौ ययोस्तौ श्रुतसंयोगविपर्ययौ तदा बहिर्भवाः बाह्यास्तैः बाह्यः विसिन्वन्ति निबध्नन्ति, इन्द्रियाणि, इति विषयास्तैः विषयः पुत्रकलत्रादिभिः विरहः-वियोगः प्रकृष्टं निश्चिनोति चेतति, चिन्तयति वा विपश्चित् तं विपश्चितं-पण्डितं किमिव कथमिव अनुतापयेत् सन्तापयेत् इति त्वम्-अजः वद-कथय । न किंचिदप्यस्ति कथनीयमित्यर्थः । ___समासः-संयोगश्च विपर्ययश्चेति संयोगविपर्ययौ, श्रुतौ संयोगविपर्ययौ ययोस्तौ श्रुतसंयोगविपर्ययो । स्वस्य शरीरमिति स्वशरीरं स्वशरीरं च शरीरी चेति स्वशरीरशरीरिणौ । अथवा शरीरं च शरीरो चेति शरीरशरीरिणौ, स्वस्य शरीरशरीरिणी इति स्वशरीरशरीरिणौ ।
हिन्दी-जब कि अपने शरीर और आत्मा का भी संयोग तथा वियोग श्रुति से सुना गया है । अर्थात् अपने शरीर तथा आत्मा भी विछुड़ने वाले माने हैं । तब बाहरी पुत्र स्त्री आदि का वियोग विद्वान् को कैसे सन्तप्त ( दुःखित ) कर सकता है यह तुम्हीं कहो । अर्थात् वियोग कुछ भी नहीं कर सकता है ।।८९।।
न पृथग्जनवच्छुचो वशं वशिनामुत्तम ! गन्तुमर्हसि ।
मसानुमतां किमन्तरं यदि वायौ द्वितयेऽपि ते चलाः ॥६०॥ सजी०-नेति । वशिनामुत्तम जितेन्द्रियवर्य ! पृथग्जनवत् पामरजनवत् शुचः शोकस्य वशं गन्तुं नाहँसि । तथा हि द्रुमसानुमतां तरुशिखरिणां किमन्तरं को विशेषः ? वायौ सति द्वितयेऽपि द्विप्रकारा अपि । 'प्रथमचरम-' (पा. १।।. ३३ ) इत्यादिना जसि विभाषया सर्वनामसंज्ञा । ते द्रुमसानुमन्तश्चलाश्चञ्चला यदि । सानुमतामपि चलने द्रुमवत्तेषामप्यचलसंज्ञा न स्यादित्यर्थः ॥१०॥