________________
१६२
रघुवंशमहाकाव्ये सनी--प्रशमेति । प्रशमे स्थितः पूर्वपार्थिवो रघुर्यस्य तत् । अभ्युद्यतोऽभ्युदितो नूतनेश्वरोऽजो यस्य तत् । प्रसिद्धं कुलं निभृतेन्दुनाऽस्तमयासन्नचन्द्रेणोदिताण प्रकटितसूर्येण च नभसा तुलां सादृश्यं समारुरोह प्राप । न च 'नभसा तुलाम्' इत्यत्र 'तुल्यार्थं :-' ( पा. २।३।७२ ) इत्यादिना प्रतिषेधस्तृतीयायाः । तस्य सदृशवाचि'तुला' शब्दविषयत्वात् । 'कृष्णस्य तुला नास्ति' इति प्रयोगात्, अस्य च सादृश्यवाचित्वात् ॥१५॥
अन्वयः-प्रशमस्थितपूर्वपार्थिवम्, अभ्युद्यतनूतनेश्वरं तत् कुलं निभृतेन्दुना उ.दतार्केण च नभसा तुलां समारुरोह ।
व्याख्या-प्रकर्षण शमः प्रशमस्तस्मिन् प्रशमे-शान्तिमार्ग स्थितः वर्तमानः पूर्वः-प्रथमः पार्थिवः राजा रघुः यस्य तत् प्रशमस्थितपूर्वपार्थिवम् । अभ्युद्यतः= अभ्युदितः नूतनः=तरुणः ईश्वरः प्रभुः-अज इत्यर्थः यस्य तत् अभ्युद्यतनूतनेश्वरम् तत्-प्रसिद्धं कोलतीति कुलम् कु-भूमि लातीति को लीयते इति वा कुलम् वंशः सूर्यकुलमित्यर्थः । निभृतः अस्तंगतप्रायः इन्दु-चन्द्रः यस्य तत्तेन निभृतेन्दुना उदितः प्रकटितः अर्च्यते-पूज्यते इति अर्कः, अयंते = स्तूयते इति वा अर्कः-सूर्यः यस्य तत्तेन उदितार्केण नह्यते मेघरिति नभः न बभस्ति, नभते, इति वा नभस्तेन नभसा =आकाशेन तोल्यतेऽनया सा तुला तां तुलां-सादृश्यम्, समारुरोहअवाप।
समासः-पूर्वश्चासौ पार्थिवः पूर्वपार्थिवः, प्रशमे स्थितः पूर्वपार्थिवो यस्य तत् प्रशमस्थितपूर्वपार्थिवम् । अभ्युद्यतः नूतनः ईश्वरः यस्य तत् अभ्युद्यतनूतनेश्वरम् । निभृतः इन्दुर्यस्य तत्तेन निभृतेन्दुना । उदितः अर्कः यस्य तत्तेन उदिताण ।
हिन्दी-जिसका पहला राजा रघु संन्यास मार्ग में स्थित है और नया ऐश्वर्यशाली राजा अज राज्यासन पर विराजमान हैं वह सूर्यवंश, उस आकाश की समानता को प्राप्त कर रहा था जिसका चन्द्र ना तो अस्त हो रहा है और सूर्य उदित हो रहा है ।।१५।।
यतिपार्थिवलिङ्गधारिणौ दहशाते रघुराघवौ जनैः । अपवर्गमहोदयार्थयोर्भुवमंशाविव धर्मयोगतो ।।१६।।