________________
१७२
रघुवंशमहाकाव्ये नुसार संन्यासिनः ध्यानयोगरतस्याग्निसंस्कारो न भवति किन्तु तस्य बिले जले वा निक्षेपणमिति भावः। ___ समासः-देहस्य विसर्जनमिति देहविसर्जन, श्रुतं देहविसर्जनं येन स श्रुतदेहविसर्जनः । निष्ठायां भवः नैष्ठिकस्तं नैष्ठिकम् ।।
हिन्दी-अपने पिता का देह त्याग सुनकर अग्निहोत्र करने वाले अज ने, बहुत देर तक आंसू बहा कर ( रोकर ) पिता का अग्नि संस्कार न कर संन्यासियों के साथ अन्त्येष्टि संस्कार किया । अर्थात् भूमि में समाधि दे दी। क्योंकि योगी संन्यासी का अग्निसंस्कार नहीं होता है भूमि में समाधि या जल प्रवाह करते हैं ॥२५॥
अकरोत्स तदोवदैहिकं पितृभक्त्या पितृकार्यकल्पवित् । न हि तेन पथा तनुत्य जस्तनयावर्जितपिण्ड काक्षिणः ।।२६।।
संजी.-अकरोदिति । पितृकार्यस्य तातश्राद्धस्य कल्पविद्विधानज्ञः सोऽजः पितृभक्त्या पितरि प्रेम्णा करणेन न पितुः परलोकसुखापेक्षया । मुक्तत्वादिति भावः । तस्य रघोरोदैहिकम् । देहादूर्व भवतीति तत्तिलोदकपिण्डदानादिकमकरोत् । 'ऊध्वं देहाच' इति वक्तव्याट्टक्प्रत्ययः अनुशतिकादित्वादुभयपदवृद्धिः । ननु कथं भक्तिरेव श्राद्धादिफलप्रप्सापि कस्मान्नाभूदित्याशङ्कयाह-न हीति । तेन यथा योगरूपेण मार्गेण तनुत्यजः शरीरत्यागिनः पुरुषास्तनयेनावर्जितं दत्त पिण्डं काङ्क्षन्तीति तथोक्ता न हि भवन्ति ॥२६॥
अन्वयः-पितृकार्यकल्पवित् सः पितृभक्त्या तदौर्व दैहिकम् अकरोत्, तेन पथा तनुत्यजः तनयावर्जितपिण्डकांक्षिणः नहि 'भवन्तीति शेषः' ।
व्याख्या-कल्पते इति कल्प:-विधिः, पितुः-जनकस्य कार्य-श्राद्धं तस्य कल्पः-विधिः, तं वेत्ति-जानातीति पितृकार्यकल्पवित् सः-अजः, भजनं भक्तिः, पितरि-जनके या भक्तिः-प्रेम तया पितृभक्त्या पितरि प्रेम्णा न तु तस्य परलोकसुखापेक्षया तस्य मुक्तत्वादित्यर्थः, देहात् ऊर्ध्वम्, ऊर्ध्वदेहः, ऊर्ध्वदेहे-भवम् और्वदैहिक, तस्य -रवोः प्रौर्ध्वदेहिकं -मृतमुद्दिश्य भरणदिनमारभ्य सपिण्डीकरणपर्यन्तं प्रतिदिनं दीयमानं जलपिण्डादिकम्, इति तदौर्बदैहिकम् अकरोत् कृतवान्, तेन