________________
रघुवंश महाकाव्ये
हिन्दी - इसके बाद यज्ञ के अनुष्ठान में लगे हुए गुरु वसिष्ठ जी ने भ्राश्रम बैठे-बैठे ही ( पत्नी वियोग ) के दुःख से अतीव पीडित अज को समाधि से जान लिया । 'अतः स्वयं न आकर अपने शिष्य द्वारा अग्रिम उपदेश से अज को ज्ञान दिया ॥७५॥
वसिष्ठशिष्य ग्रह
२१८
श्रसमाप्तविधिर्यतो मुनिस्तव विद्वानपि तापकारणम् ।
न भवन्तमुपस्थितः स्वयं प्रकृतौ स्थापयितं पथ युतम् ||७६ ॥
संजी० – असमाप्तेति । यतो हेतोर्मुनिरसमाप्तविधिरसमाप्तक्रतुस्ततस्तव तापकारणं दुःखहेतुं कलत्रनाशरूपं विद्वाञ्जानन्नपि । 'विदेः शतुर्वसुः' ( पा. ७।१।३६ ) इति वस्वादेश: । 'न लोक - ( पा. २।३।६९ ) इत्यादिना षष्ठीप्रतिषेघः । पथ - श्वयुतं स्वभावादुभ्रष्टं भवन्तं प्रकृतौ स्वभावे स्थापयितुम् । समाश्वासयितु' मत्यर्थः । स्वयं नोपस्थितो नागतः ॥ ७६ ॥
अन्वयः - यतः मुनिः श्रसमाप्तविधिः 'ततः ' तव तापकारणं विद्वान् अपि पथः च्युतं भवन्तं प्रकृतौ स्थापयितुं स्वयं न उपस्थितः ।
व्याख्या - यस्मादिति यतः = यस्मात् हेतोः मन्ता वेदशास्त्रार्थतत्त्वावगन्ता मुनिः- मंत्रद्रष्टा = वसिष्ठः विधानं विधिः न समाप्तः इति असमाप्तः - असम्पूर्णः विधिः= यागः यस्य स तथोक्तः । ततः = तस्मात् कारणात् तव = अजस्येत्यर्थः तापयतीति तापः । तापस्य दुःखस्य कारणं हेतुः तत् तापकारणम् । इन्दुमतीमरणरूपमित्यर्थः वेत्तीति विद्वान् = जानन्नपि पथन्ते श्रनेन, पतन्ति अनेन वा पन्थाः तस्मात् पथः=मार्गात् स्वभावादित्यर्थः च्युतं - भ्रष्टं भवन्तम् = प्रजं प्रकुरुते इति प्रकृतिस्तस्यां प्रकृतौ-स्वभावे स्थापयितुं - संस्थापयितुम् = श्राश्वासयितुमित्यर्थः स्वयम् = श्रात्मना नोपस्थितः–न प्राप्तः । भवन्तमाश्वासयितुमत्र नागतो गुरुरिति ।
समासः - न समाप्तः विधिः येन सोऽसमाप्तविधिः । तापस्य कारणमिति तत् तापकारणम् ।
हिन्दी - वसिष्ठ मुनि यज्ञ की पूर्णाहुति नहीं कर पाये हैं । इसलिए तुम्हारे स्त्रीविनाश रूप दुःख को जानते हुए भी स्वभाव से गिरे हुए आपको धीरता बनवाने के लिए स्वयं नहीं आए हैं ।। ७६ ।।