________________
२२०
रघुवंशमहाकाव्ये संती-पुरुषस्येति । अजन्मनः पुराणपुरुषस्य भगवतस्त्रिविक्रमस्य पदेषु विक्रमेषु । त्रिभुवनेष्वपीत्यर्थः । समतीतं भूतं च भवद्वर्तमानं च भावि भविष्यच्चेति त्रितयं स मुनिनिष्प्रतिघेनाप्रतिबन्धेन ज्ञानमयेन चक्षुषा ज्ञानदृष्टया पश्यति हि। मतस्तदुक्तिषु न संशयितव्यमित्यर्थः ॥७८।।
अन्वयः-अजन्मनः पुरुषस्य पदेषु समतीतं च भवत् च भावि च 'इति' त्रितयं स निष्प्रतिधेन ज्ञानमयेन चक्षुषा पश्यति हि। .
व्याख्या-जननं जन्म म जन्म यस्य सोऽजन्मा तस्य अजन्मनः-अजस्य जन्मरहितस्येत्यर्थः पुरति, पूरयतीति वा पुरुषस्तस्य पुरुषस्य त्रिविक्रमस्य-वामनावतारस्येत्यर्थः । पदन्ति, पद्यन्तीति पदास्तेषु पदेषु-विक्रमेषु-त्रिभुवनेष्वपीत्यर्थः। सम्यगतीतं समतीतं भूतकालिकं भवतीति भवत्-वर्तमानं भावि-भविष्यच्चेति त्रितयं=
कालिकं सर्वमिति यावत् स-मुनिर्वसिष्ठः प्रतिहननं प्रतिषः, प्रतिघात् निष्क्रान्तमिति निष्प्रतिघं तेन निष्प्रतिधेन-प्रतिबन्धरहितेन ज्ञानप्रचुरं ज्ञानमयं तेन ज्ञानमयेन= अलौकिकज्ञानेनेत्यर्थः । चष्टे इति चक्षुः, चक्ष्यतेऽनेन वा चक्षुस्तेन चक्षुषा-ज्ञानदृष्टया पश्यति हि-अवलोकयति हि । अतः वसिष्ठोक्तिषु सन्देहो न कर्तव्य इति भावः ।
समासः-न जन्म यस्य सोऽजन्मा तस्य अजन्मनः । प्रतिघात् निष्क्रान्तं निष्प्रतिघं तेन निष्प्रतिघेन ।
हिन्दो-अजन्मा पुराण पुरुष वामन भगवान् के तीन पदों में अर्थात् त्रिभु. वन में, भूत, भविष्य तथा वर्तमान की सम्पूर्ण वस्तुओं को वे मुनि, कभी न रुकने वाले अपने ज्ञान नेत्रों से देखते हैं । अर्थात् वे सर्वज्ञ हैं। अतः उनकी बातों में सन्देह न करना ॥७॥
चरतः किल दुश्चरं तपस्तृणबिन्दोः परिशङ्कितः पुरा । प्रजिघाय समाधिभेदिनी हरिरस्मै हरिणी सुराङ्गनाम् ।।७।।
मंजी०-चरत इति । पुरा किल दुश्चरं तोवं तपश्चरतस्तृणबिन्दोस्तृणबिन्दुनामकात्कस्माच्चिदृषेः परिशङ्कितो भीतः। कर्तरि क्तः । “भीत्रार्थानां भयहेतुः' (पा. १।४।२५ ) इत्यपादानात्पञ्चमी । हरिरिन्द्रः समाधिभेदिनीं तपोवि घातिनी हरिणों नाम सुराङ्गनामस्मै तृगबिन्दवे प्रजिघाय प्रेरितवान् ॥७९॥ ।