Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
अष्टमः सर्गः
१३१
समासः - अन्तयतीति अन्तकः प्रजानामन्तकः प्रजान्तकः । हिमस्य सेक: हिमसेक स्तेन विपत्तिः यस्याः सा हिमसे कविपत्तिः । पूर्वञ्च तन्निदर्शनमिति पूर्वनिदर्शनम् ।
हिन्दी- -प्रथवा यमराज, कोमल वस्तु को कोमल पदार्थ से ही मारने के लिए उपक्रम करता है । अर्थात् नाजुक को नाजुक से ही मारता है । इस विषय में पाला (प्रस) गिरने से नष्ट होने वाली नलिनी ही पहला उदाहरण थी । तथा दूसरा उदाहरण अब पुष्प के लगने से मरी इन्दुमती है || ४५॥
afrयं यदि जीवितापहा हृदये कि निहिता न हन्ति माम् । त्रिषमप्यमृतं क्वचिद् भवेदमृतं वा विषमीश्वरेच्छया ||४६ ॥
संजी० - स्रगिति । इयं स्रक् जीवितमपहन्तीति जीवितापहा यदि । हृदये वक्षसि । 'हृदयं वक्षसि स्वान्ते' इत्यमरः । निहिता सती मां किं न हन्ति ? ईश्वरेच्छया क्वचित् प्रदेशे विषमप्यमृतं भवेत् क्वचिदमृतं वा विषं भवेत् । दैवमेवात्र कारणमित्यर्थः ॥४६॥
-
अन्वयः — इयम् स्त्रक् यदि जीवितापहा 'अस्ति' हृदये निहिता 'सती' मां किं न हन्ति ईश्वरेच्छया क्वचित् विषम् अपि अमृतं भवेत्, अमृतं वा विषं भवेत् ।
व्याख्या - इयं = पुरोवर्तिनी सृजति सुखं या सा स्रुक् =माला यदि चेत् जीवितं = जीवनम् अपहन्ति = विनाशयतीति जीवितापहा 'तदा' हरति ह्रियते वा हृदयं तस्मिन् हृदये - वक्षसि निहिता = स्थापिता सती माम् = प्रजं किं न हन्ति = मारयति । ईश्वरस्य इच्छा ईश्वरेच्छा तया ईश्वरेच्छया = भगवदिच्छया क्वचिंत् स्थाने वेवेष्टि= व्याप्नोति कायमिति तत् विषं गरलम् अपि न मृतं = मरणमस्ति प्रस्मिन्निति, अमृतं = पीयूषं भवेत् = जायेत क्वचित् प्रदेशे प्रमृतं = पीयूषं वा विषं गरलं भवेत् । यथा इन्दुमतीविषये पुष्पमाला प्राणहारिणो जाता, इति भाग्यमेवात्र कारणमित्यर्थः ।
समासः - जीवितस्य अपहा इति जीवितापहा । ईश्वरस्य इच्छा ईश्वरेच्छा तया ईश्वरेच्छया ।
हिन्दी - यदि यह माला जीवन का नाश करने वाली है तो हृदय पर रखी हुई मुझे क्यों नहीं मारती है। (ठीक हो है) ईश्वर की इच्छा से कहीं विष भी अमृत हो जाता है और कहीं अमृत भी विष हो जाता है ||४६ ||