________________
रघुवंशमहाकाव्ये समासः-सुरते श्रमः सुरतश्रमस्तेन संभृतः इति सुरतश्रमसंभृतः । स्वेदस्य लवः स्वेदलवस्तस्य उद्गमः इति स्वेदलवोद्गमः । देहं बिभ्रतीति देहभृतस्तेषां देहभृताम् । न सारोऽत्र असारस्तस्य भावस्तत्ता ताम् असारताम् ।
हिन्दी-सम्भोग की थकावट से उत्पन्न हुई पसीने की बूंदें भी तुम्हारे मुख पर 'अभी' तक वर्तमान (मौजूद) हैं पर तुम नाश को प्राप्त हो गई हो । अर्थात् मर गई हो। इसलिए देहधारियों की इस प्रत्यक्ष नश्वरता को धिक्कार है ।।५१॥
मनसापि न विप्रियं मया कृतपूर्व तव किं जहासि माम् ? । ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः ।।५२!!
संजी०-मनसेति । मया मनसापि तव विप्रियं न कृतपूर्वम् पूर्वं न कृतमित्यर्थः । सुप्सुपेति समासः । किं केन निमित्तेन मां जहासि त्यजसि ? नन्वह क्षितेः शब्दपतिः शब्दत एव पतिः । न त्वर्थत इत्यर्थः । भावनिबन्धनाऽभिप्रायनिबन्धना स्वभावहेतुका मे रतिः प्रेम तु त्वय्येव, अस्तीति शेषः ।।५२।।
अन्वयः-मया मनसा अपि तव विप्रियं न कृतपूर्व किं मां जहासि ननु अहं क्षितेः शब्दपतिः, भावनिबन्धना मे रतिः त्वयि 'एवास्तीति शेषः' ।
व्याख्या-मया-राज्ञा अजेन मन्यतेऽनेन तन्मनस्तेन मनसा मानसेन अपिः= समुच्चये येन चित्तेनापि न कृतं, तदा कर्मणा किमु वक्तव्यमित्यर्थः । तव इन्दुमत्याः प्रीणातीति प्रियं प्रियस्य विरुद्धं विप्रियं-विरुद्धम्-अनिष्टमित्यर्थः न=नहि पूर्व कृतमिति कृतपूर्व-पूर्वं न कृतमित्यर्थः किं केन कारणेन माम् अजम् जहासि-त्यजसि, ननु निश्चितम् अहम् अजः क्षितेः पृथिव्याः पातीति पतिः-स्वामी शब्दपतिः न त्वथतः पतिः भावयति-परिभावयतीति भावः निबध्यतेऽनया सा निबन्धना भावस्य= प्रणयस्य निबन्धना इति भावनिबन्धना=प्रेमहेतुका मे मम रतिः अनुरागः त्वयि = इन्दुमत्यामेवास्तीति शेषः। ___ समासः-पूर्वं कृतमिति कृतपूर्वम् । शब्देन पतिः शब्दपतिः । भावस्य निबन्धना, इति भावनिबन्धना , भावं निबध्नातीति वा भावनिबन्धना ।
हिन्दी-मैंने मन से भी तुम्हारा अप्रिय (बुरा) कभी पहले नहीं किया है। 'फिर' किस कारण से तुम मुझे छोड़ रही हो । सत्य यह है कि मैं पृथिवी का नाममात्र का पति हूँ। मेरा स्वाभाविक प्रेम तो तुम्हीं पर है ॥५२॥