________________
२०८
रघुवंशमहाकाव्ये निभः-तुल्यः इति प्रतिपच्चन्द्रनिभः, दर्शनीयः वर्धिष्णु श्चेति । अहम् अजः रस्यते प्रास्वाद्यते इति रसः एकः अभिन्नः रसः रागः यस्य स एकरसः। तथापि एतावजीवनसामग्रीसत्त्वेऽपीत्यर्थः । ते तव व्यवसायः = निश्चयः पूर्वोक्तसामग्रीत्यागरूपो व्यापार इत्यर्थः । प्रतिपत्त्या निश्चयेन निष्ठुरः- क्रूरः दारुणइत्यर्थः, इति प्रतिपत्तिनिष्ठुर एवास्तीति स्मरणं कर्तुमपि न शक्यते करणस्य तु का कथेति भावः।
समासः-सखीनां जन इति सखीजनः, समानि दुःखानि सुखानि च यस्य स समदुःखसुखः । प्रतिपदः चन्द्रस्तेन निभः इति प्रतिपच्चन्द्रनिभः । एकः रसो यस्य स एकरसः । प्रतिपत्त्या निष्ठुर इति प्रतिपत्तिनिष्ठुरः।
हिन्दी-तुम्हारे दुःख सुख में समान दुःखी-सुखी ये सखियाँ हैं। प्रतिपदा के चन्द्र के समान ( शुक्ल द्वितीया चन्द्र के समान ) सुन्दर और होनहार यह पुत्र है। एवं तुम्हारा अनन्य प्रेमी मैं हूं। फिर भी हम सबको छोड़कर चल देने का तुम्हारा निश्चय, अतीव कठोर है । अर्थात् इतने सब जीवन सुखों के त्याग का स्मरण भी कोई न करेगा, त्याग की बात ही दूर है ॥६५॥
धृतिरस्तमिता रतिश्च्युता विरतं गेयमृतुनिरुत्सवः । गतमाभरणप्रयोजन परिशून्यं शयनीयमद्य मे ॥६६।।
मञ्जी०-धृतिरिति । अद्य मे धृतिर्थैर्य प्रतीतिर्वाऽस्तं नाशमिता। रतिः क्रीडा च्युता गता। गेयं गानं विरतम् । ऋतुर्वसन्तादिनिरुत्सवः। आभरणानां प्रयोजनं गतमपगतम् । शेतेऽस्मिन्निति शयनीयं तल्पम् । 'कृत्यल्युटो बहुलम्' (पा. ३।३।११३) इत्यधिकरणार्थेऽनीयप्रत्ययः । परिशून्यम् । त्वां विना सर्वमपि निष्फलमिति भावः ॥ ६६ ॥
अन्वयः-अद्य मे धृतिः अस्तमिता रतिः च्युता गेयं विरतम् ऋतुः निरुत्सवः आभरणप्रयोजनं गतम्, शयनीयं परिशून्यम् , 'वर्तते शेषः' ।
व्याख्या-अद्य अस्मिन् , अहनि मे अजस्य धारणं धृतिः धैर्यम् असनम् इति अस्तम् अदर्शनम् इता=गता नष्टेत्यर्थः, रमणं रतिः क्रीड़ा च्युता=गता नष्टा, गेयं गानं विरतं समाप्तम्, इयति ऋच्छति वा ऋतु: वसन्तादिः निर्गतः उत्सवः यस्य स निरुत्सवः-उत्सवशून्यः, प्रा भ्रियतेऽनेनेति प्राभरणम् । पाभरणस्य-अलंकारस्य