________________
अष्टमः सर्गः
१७३ पथा-समाधिमार्गेण, योगमार्गेणेत्यर्थः तन्यते इति तनुः, तनु-शरीरं त्यजन्ति ते तनुत्यजः- कलेवरत्यागिन: 'पुरुषाः' तनोति-कुलं विस्तारयतीति तनयस्तेन तनयेन= पुत्रेण आवर्जितं-दत्तं पिण्ड=निवापं कांक्षन्ति= इच्छन्तीति तनयावर्जितपिण्डकांक्षिणः नहि भवन्तीति शेषः, योगमार्गेण ये देहं त्यजन्ति ते तु मुक्ता भवन्तीति भावः।
___समासः-पितुः कार्य,पितृकार्य, पितृकार्यस्य कल्पं वेत्तीति पितृकार्यकल्पवित् । पितरि भक्तिस्तया पितृभक्त्या । देहात् ऊर्ध्वम् ऊर्ध्वदेहः, ऊर्ध्वदेहे भवः औदैहिकः तमौलदैहिकम् । तनुं त्यजन्तीति तनुत्यजः। तनयेन आवर्जितं पिण्डं कांक्षन्तीति तनयावर्जितपिण्डकांक्षिणः ।
हिन्दी-पिता के श्राद्ध के विधान (विधि) को जानने वाले अज ने पिता में भक्ति होने के कारण से, पिण्डदानादिश्राद्ध कर्म किया, न कि श्राद्ध के फल की इच्छा से, क्योंकि योगमार्ग से शरीर त्यागने वाले पुरुष, पुत्र से दिये गये पिण्ड तिलोदक की इच्छा नहीं रखते हैं । वे तो मुक्त हो जाते ॥२६॥
स परायंगतेरशोच्यतां पितुरुद्दिश्य सदर्थवेदिभिः । शमिताधिरधिज्यकार्मुकः कृतवानप्रतिशासनं जगत् ॥२७॥
संजी०–स इति । परायंगतेः प्रशस्तगतेः प्राप्तमोक्षस्य पितुरशोच्यतामशोंचनीयत्वमुद्दिश्याभिसंधाय । शोको न कर्तव्य इत्युपदिश्येत्यर्थः । सदर्थवेदिभिः परमार्थ विद्वद्विः शमिताधिर्निवारितमनोव्यथः । 'पुंस्याधिर्मानसी व्यथा' इत्यमरः । सोऽजोऽधिज्यकार्मुकः अधिज्यमारोपितमौर्वीकं कार्मुकं यस्य स तथोक्तः सन् । जगत् कर्मभूतमप्रतिशासनं द्वितीयाज्ञारहितम् । आत्माज्ञाविधेयमित्यर्थः । कृतवांश्चकार ॥२७॥
अन्वयः-पराय॑गतेः, पितुः, अशोच्यताम, उद्दिश्य, सदर्थवेदिभिः, शमिताधिः, सः, अधिज्यकाकः सन् जगत् अप्रतिशासनं कृतवान् ।
व्याख्या-परस्मिन् अर्धे भवा पराा, परार्ध्या प्रशस्ता = श्रेष्ठा गतिः-गमनं यस्य स परायंगतिस्तस्य परायंगतेः प्राप्तमोक्षस्य पितुः= जनकस्य रघोः न शोच्यः प्रशोच्यस्तस्य भावस्तत्ता ताम् अशोच्यताम् अशोचनीयत्वम् उद्दिश्य संलक्ष्य शोको न.