________________
१७८
रघुवंशमहाकाव्ये परपीडनाय वेति भावः । बहु-अधिक प्रभूतं श्रुतं शास्त्र विद्या विशेषेण विदन्तीति विद्वांसस्तेषां विदुषां-पण्डितानां सत्कृतये सत्काराय नंतु गर्वायासीत् । यस्य बहुश्रुतमपि परोपयोगि तस्य धनं परोपयोगीति किं वक्तव्यमिति भावः ।
समासः-परेषां प्रयोजनं परप्रयोजनम् । गुणाः सन्ति यस्मिन् स गुणवान् तस्य भावः गुणवत्ता । परेषां प्रयोजनं यस्यां सा परप्रयोजना। प्रार्तानां भयस्य उपशान्तिस्तस्यै पाभियोपशान्तये ।
हिन्द।-महाराज अज का केवल धन ही परोपकार के लिए न था, किन्तु उसके गुण भी दूसरों के उपकार के लिए थे। क्योंकि अज का पराक्रम दीन दुर्बलों के भय को दूर करने के लिए तथा शास्त्रों का अध्ययन विद्वानों के सत्कार के लिए था अर्थात् जिसके शास्त्र पठनादि गुण भी दूसरों के उपयोग के लिए थे, तो फिर उसके धन के परोपकार को क्या बात है ।।३१।।
स कदाचिदवेक्षितप्रजः सह देव्या विजहार सुप्रजाः । नगरोपवने शचीसखो मरुनां पालयितेव नन्दने ॥३२॥
संजी०-स इति । अवेक्षितप्रजोऽकुतोभयत्वेनानुसंहितप्रजः । 'नित्यमसिच्प्रजामेधयोः' इत्यसिच्प्रत्ययः। न केवलं स्त्रण इति भावः । शोभना प्रजा यस्यासौ सुप्रजाः सुपुत्रवान् । पुत्रन्यस्तभार इति भावः । सोऽजः कदाचिद्देव्या महिष्येन्दुमत्या सह नगरोपवने । नन्दने नन्दनाख्येऽमरावत्युपकण्ठवने शचीसखः । शच्या सहेत्यर्थः । मरुतां देवानां पालयितेन्द्र इव विजहार चिक्रीड ॥३२॥
अन्वयः-अवेक्षितप्रजः सुप्रजाः सः, कदाचित् देव्या सह नगरोपवने, नन्दने शचीसखः मरुतां पालयिता इव विजहार ।
व्याख्या-प्रवेक्षिताः अवलोकिताः अनुपद्रवत्वेनानुसंहिता इत्यर्थः प्रजाः= जनाः येन सः अवेक्षितप्रजः, न केवलं स्त्रीपरायण इत्यर्थः शोभना प्रजा-सन्ततिः= पुत्रः यस्य सः सुप्रजाः सुयोग्यपुत्रवान्, सः अजः कदाचित् -कस्मिश्चित्काले देव्या महिष्या-इन्दुमत्येत्यर्थः सह साकम् उपगतं वनमिति उपवनं न गच्छन्तीति नगाः, नगाः सन्त्यत्र तन्नगरं नगरस्य-पत्तनस्य उपवनमिति नगरोपवनं तस्मिन् नगरोपबने पुरस्य कृत्रिमवने इत्यर्थः नन्दयतीति नन्दनं तस्मिन् -नन्दने इन्द्रबने-अमरावत्यु