________________
१८६
रघुवंशमहाकाव्ये संजी०-नृपतेरिति । नृपतेरजस्य तमोऽज्ञानं व्यजनादिभिः साधनहुँनुदेऽपसारितम् । 'पादि' शब्देन जलसेककपूरक्षोदादयो गृह्यन्ते । सा विन्दुमती तथैव संस्थिता मृता । तथा हि-प्रतिकारविधानं चिकित्सायुषो जीवितकालस्य शेषे सति विद्यमाने। 'अायुर्जीवितकालो ना' इत्यमरः । फलाय सिद्धये कल्पत आरोग्याय भवति, नान्यथा। नृपतेरायुःशेषसद्भावात्प्रतीकारस्य साफल्यम् । तस्यास्तु तदभावाद्वैफल्यमित्यर्थः ॥४०॥
अन्वयः-नृपतेः तमः व्यजनादिभिः नुनुदे, सा तु तथैव संस्थिता, हिं प्रतिकारविधानम् आयुषः शेषे सति फलाथ कल्पते । __व्याख्या-नन् जनान् पाति-रक्षतीति नृपतिस्तस्य नृपतेः अजस्य तमः= अज्ञानम् मूर्छा व्यजन्ति अनेनेति व्यजनं, व्यजनं-तालवृन्तकमादि येषां ते व्यजनादयस्तैः व्यजनादिभिः-तालवृन्तकजलसेकक रक्षोदैरित्यर्थः नुनुदे= निवारितम्-दूरीकृतम् तु = किन्तु सा=इन्दुमती तथैव-तेनैव प्रकारेण संस्थिता-मृता 'संस्थाऽऽधारे स्थितौ मृतौ' इति कोशः। हि-यतः प्रतिकारस्य चिकित्सायाः विधानं - करणमिति प्रतिकारविधानम्-व्यजनाद्यपायकरणमित्यर्थः, एति इति अायुस्तस्य आयुषः जीवितकालस्य शेषे वर्तमानत्वे, सति फलाय-परिणामाय=सिद्धये कल्पते= भवति । अजस्य आयुःशेषत्वात् प्रतिकारस्य साफल्यं जातम् । इन्दुमत्याः प्रायुषः समाप्तत्वात् प्रतिकारो व्यर्थो जात इति भावः ।
समासः- व्यजनम् प्रादियेषान्ते ब्यजनादयस्तैः व्यजनादिभिः । प्रतिकारस्य विघानमिति प्रतिकारविधानम् ।
हिन्दी-राजा अज की मूी तो पंखा करना, जल छिड़कना, कपूरचन्दन लगाना आदि उपायों से दूर हो गई। ( अर्थात् अज को चेतना लौट आई ) किन्तु वह इन्दुमती तो ज्यों की त्यों ही पड़ी रही। क्योंकि प्रतिकार का विधान "दवा प्रादि करना' आयु के रहने पर ही सफल होता है। अर्थात् आयु रहने से राजा जी गया और आयु के न रहने से इन्दुमती न जी सकी, उपायों के करने पर भी मर गई ॥४०॥
प्रतियोजयितव्यवल्लकीसमवस्थामथ सत्त्वविलवात् । स निनाय नितान्तवत्सलः परिगृह्योचितमङ्कमङ्गनाम् ॥४१।।