________________
रघुवंशमहाकाव्ये
बभूव । तथा हि-अस्त्रतेजसा क्षत्रतेजसा सहितं युक्तं यद्ब्रह्म ब्रह्मतेजोऽयं पवनाग्निसमागमो हि तत्कल्प इत्यर्थः । 'पवनाग्नि' इत्यत्र पूर्वनिपातशास्त्रस्यानित्यत्वात् 'द्वन्द्वे घि' ( पा. २।२३२ ) इति नाग्निशब्दस्य पूर्वनिपातः । तथा च काशिकायाम्'अयमेकस्तु लक्षणहेत्वोरिति निर्देशः पूर्वनिपातव्यभिचारचिह्नम्' इति । क्षात्रणवायं दुर्धर्षः किमयं पुनर्वसिष्ठमन्त्रप्रभावे सतीत्यर्थः । अत्र मनु:-'नाक्षत्रं ब्रह्म भवति क्षत्रं नाब्रह्म वर्धते । ब्रह्मक्षत्रे तु संयुक्त इहामुत्र च वर्धते ।।' इति ॥४॥ ___ अन्वयः--अथर्वविदा कृतक्रियः सः परैः दुरासदः बभूव, हि अस्वतेजसा सहितं यत् ब्रह्म अयं पवनाग्निसमागमः । __ व्याख्या-प्रथ-लोकमंगलाय अझते-प्रस्तूयते यत् तत् अथर्व अथर्व-वेदविशेषं वेत्ति-जानातीति अथर्ववित् तेन अथवंविदा गिरति अज्ञानमिति गुरुस्तेन गुरुणा वसिष्ठेन कृता='अथर्वोक्तविधिना विहिता क्रिया-अभिषेकसंस्कारो यस्य स कृतक्रियः सः अजः परैः-शत्रुभिः दुःखेन आसाद्यते यः स दुरासदा=दुर्घर्षः बभूव= जातः । तथाहि अस्त्रस्य-शस्त्रस्य लक्षणया क्षत्रस्येत्यर्थः तेजः-प्रतापस्तेन अस्त्रतेजसा सहितं-युक्तं यत् ब्रह्म-ब्रह्मतेजः, अजं पुनातीति पवनः वायुः अग्निः वह्निस्तयोः समागमः सम्मिलनम् इति पवनाग्निसमागमः, पवनाग्निसमागमतुल्य इत्यर्थः ।
समासः-अथर्व वेत्तीति अथर्ववित् तेन अथर्वविदा । दुःखेन प्रासाद्यते यः स दुरासदः । पवनश्च अग्निश्च पवनाग्नी तयोः समागमः पवनाग्निसमागमः । अस्त्रस्य तेजस्तेन अस्त्रतेजसा।
हिन्दी-अथर्व वेद के जानने वाले गुरु वसिष्ठ जी के द्वारा राज्याभिषेक संस्कार किए जाने पर वह तेजस्वी अज शत्रु के लिए दुराधर्ष हो गया। ठीक हो है । यह क्षात्र तेज के साथ ब्राह्म तेज का मिलना, वायु अग्नि संयोग के समान होता है। जैसे वायु के संयोग से अग्नि भयंकर हो जाता है वैसे ही क्षात्र तेज ब्राह्म तेज मिलने पर असह्य होता है ।।४।।
रघुमेव निवृत्तयौवनं तममन्यन्त नवेश्वरं प्रजाः। स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान्गुणानपि ॥५॥
संजी०-रघुमिति । प्रजा नवेश्वरं तमजं निवृत्तयौवनं प्रत्यावृत्तयौवनं रघुमेवामन्यन्त । न किचिद्भेदकमस्तीत्यर्थः । कुतः ? हि यस्मात् सोऽजस्तस्य. रघो